________________
१४६
कातन्त्रव्याकरणम्
[दु० वृ०]
कर्मप्रवचनीयैर्योगे लिङ्गाद् द्वितीया भवति । वृक्षम् अभि विद्योतते विद्युत् । वृक्षं वृक्षम् अभि तिष्ठति । साधुर्देवदत्तो मातरमभि । यदत्र मां परि स्यात् । यदत्र मां प्रति स्यात् । वृक्षम् अनु विद्योतते विद्युत् । पर्वतमनु वसिता सेना । अन्वर्जुनं योद्धारः । उपार्जुनं योद्धारः ।
लक्षणवीप्सेत्थम्भूतेष्वभिर्भागे परिप्रती।
अनुरेषु सहार्थे च हीने उपश्च कथ्यते ॥ आधिक्यार्थोपशब्दसंयोगे सप्तमी वाच्या - उपखार्यां द्रोणः । स्वाम्यर्थाधियोगे च - अधि ब्रह्मदत्तेषु पञ्चालाः । अधि पञ्चालेषु ब्रह्मदत्त इति ।।३०८।
[दु० टी०]
कर्म० । कर्म क्रियां प्रोक्तवन्तः कर्मप्रवचनीयाः । कर्तर्यतीतेऽभिधानादनीयप्रत्ययः । लोकोपचारात् सिद्धेयं संज्ञा । उक्तं च -
क्रियाया योतका नेमे संबन्धस्य न वाचकाः। नापि क्रियान्तरापेक्षाः संबन्धस्य तु भेदकाः॥
(द्र०, वा०प०२।२०४) इति । यथा 'अभिद्योतते' इत्यादौ क्रियां द्योतितवन्तः, न तथा लक्षणादिषु, संबन्धस्य तु षष्ठी वाचिका ।निर्गतः कौशाम्ब्या इव न क्रियान्तरापेक्षास्तस्मात् संबन्धस्य विशेषका इति । इहान्वर्थसंज्ञा प्रायो रूपावगता रुच्यर्थादिषु संप्रदानवदिति । लक्षणेत्यादि । लक्षणम् उपलक्षणम्, जनकं च । वृक्षो लक्षणम्, विद्योतमाना विद्युल्लक्ष्या । अभिना लक्षणवृत्तिना द्योत्यत इति अभिना युक्तो वृक्षः । विद्युद् वृक्षं प्राप्य विद्योतते इति । प्राप्तिक्रियाजनितो लक्ष्यलक्षणभावः संबन्धोऽभिना द्योत्यते । लक्षणार्थश्च विषयभावेनेति षष्ठीवदप्रधानादेव द्वितीया । वृक्षं वृक्षमभितिष्ठितीति स्थित्या वृक्षाणां वीप्स्यमानानां स्थितिं प्रति साध्यसाधनलक्षणः संबन्धोऽभिना द्योत्यते इति तयुक्तो वृक्षार्थः स्वभावाद् वीप्सा द्विर्वचनद्योत्या । मातुर्विषयभावेन इत्थम्भूतवृत्तिर्देवदत्तः । इत्थम् इमं प्रकारं मातृविषये प्राप्त इत्यर्थः । मातुरित्त्थम्प्राप्त्या विषयविषयिलक्षणः संबन्धोऽभिना द्योत्यते इति मातुस्तद्योगः।