________________
१४७
नामचतुष्टयाप्पाये चतुर्षः कारकपादः भागे च परिप्रती इति चकारेण लक्षणादयोऽर्थाः कथ्यन्ते इति । योऽत्र ममांशमाभजते स दीयतामित्यर्थः । आभजनक्रियाजनितः स्वीकारक्रियाजनितो वा स्वस्वामिभावसंबन्धः परिप्रतिभ्यां द्योत्यते इति अस्मदर्थो भागस्वामी परिप्रतिभ्यां युक्तः । अनुरेष्विति |इदम्-शब्देन लक्षणादयो भागपर्यन्ता उच्यन्ते ।साकल्येन संहितामनुप्रावर्षदिति । हेतुरपि लक्षणं भवति । यथा अपि भवान् कमण्डलुपाणिं छात्रमद्राक्षीदिति सकृद् दृष्टकमण्डलुपाणिश्छात्रस्तस्य तदेव लक्षणं भवति । लक्ष्यते च साकल्यस्य संहितया वृष्टिरिति भावः । यदैव साकल्यस्य संहिता बहिर्निष्काश्यते तदैव देवो वर्षतीति । हेतौ परापि तृतीया बाध्यते व्यक्तिप्रधानत्वात् । हेतौ वा कर्मप्रवचनीयसंज्ञास्तीति । सहार्थे चेति । पर्वतेन यः सहभावस्तत्रानुशब्दो वर्तते इति तेन युक्तः पर्वत इति । उपश्चेति चकारेण अनुरनुकृष्यते । हीन इत्यर्थनिर्देशो विषयसप्तमीयम् । हीनार्थविषयानुशब्देन युक्त इति । यतो हीनो निकृष्टो भवति स उत्कृष्टो हीनार्थविषयो वेदितव्यः । हीनोत्कृष्टसंबन्धश्चानयोर्यदा अनुशब्देन द्योत्यते तदा तयुक्तो भवति । एवम् ‘उपार्जुन योद्धारः' इति । अर्जुनान्निकृष्टा इत्यर्थः ।
अध्यारूढस्याधिक इति निपातनलक्षणमुक्तमेव । गत्यर्थाकर्मकत्यादिना रुहे: कर्तरि क्तः कर्मणि च विधीयते । अध्यारूढः खारीं द्रोणः, अध्यारूढा खारी द्रोणेनेति तत्पर्यायोऽधिकशब्द इति । यथा 'अधिका खारी द्रोणेन' इति, उक्तार्थत्वान्न द्वितीया । तथा अधिकः खार्यां द्रोण इति कतरि क्ते कथन्न द्वितीयेति ? सत्यम्, आधारस्यैव विवक्षितत्वात् । एवं च 'उपखार्यां द्रोणः' इति सप्तमी सिद्धा, अधिकाधिकिभावव्यञ्जकेनोपशब्देनापीति कुतः पुनरिदं चोद्यम् । अधिकाधिकि संबन्धेऽध्यारोहणक्रियाजनितेऽप्युपशब्दद्योत्येऽधिकिनः षष्ठी स्यात् । तथा 'अधि ब्रह्मदत्तेषु पञ्चालाः' इति परिपालनादिक्रियाजनिताधाराधेयभावव्यञ्जकेनाधिशब्देनेति । यदा “पञ्चालान् जनपदान् प्राप्य ब्रह्मदत्तो विवर्धते' इति विवक्षा, तदा विपरीतमुदाहरति, कुतः पुनःस्वस्वामिसंबन्धे षष्ठी स्याद् इति चोद्यम् । अत आह - आधिक्यार्थोपशब्दसंयोगे इत्यादि । आधिक्यं चासावर्थश्चेति तत्रोपशब्द इति ।।३०८।
[वि० प०]
कर्म० । कर्मशब्दः क्रियावचनः।कर्म क्रियां प्रोक्तवन्तः द्योतितवन्तः कर्मप्रवचनीयाः। "कृत्ययुटोऽन्यत्रापिच"(४।५।९२) इति वचनात् कर्तर्यतीतेऽनीयप्रत्ययः । यथाकथंचिद्