________________
१४८
कातन्त्रव्याकरणम्
इयं व्युत्पत्तिः । संज्ञास्तु लोकत एव प्रतिपत्तव्याः। तत्र लक्षणादिष्वर्थेष्वभ्यादयः शब्दाः कर्मप्रवचनीया इति दर्शयति-लक्षणेत्यादि । लक्षणं चिह्नं ज्ञापकमित्यर्थः । क्रियागुणद्रव्यैयुगपत् प्रयोक्तुर्व्याप्तुमिच्छा वीप्सा । इत्थम्भूतः कञ्चित् प्रकारमापन्नः उच्यते, भवितरत्र प्राप्तौ सकर्मकः । एतेष्वर्थेष्वभिशब्दः कर्मप्रवचनीयसंज्ञो भवति ।
भागे चेति चकारेण लक्षणादयस्त्रयोऽर्थाः कथ्यन्ते । अनुरेषु सहार्थे चेति । एषु लक्षणादिषु चतुर्वर्थेषु सहार्थे चेत्यर्थः ।हीने उपश्चेति चकारादनुश्च । एते लक्षणादयोऽर्था अभ्यादीनां न द्योत्याः, किन्तर्हि विषयभूताः । द्योत्यः पुनः संबन्धविशेषः । यथा'वृक्षम् अभि विद्योतते विद्युत्' इति । वृक्षोऽत्र लक्षणम् । विद्योतमाना विद्युल्लक्ष्या । वृक्षं प्राप्य विद्योतते इत्यर्थः । प्राप्तिक्रियाजनितो लक्ष्यलक्षणसंबन्धोऽभिना द्योत्यते । वृक्षं वृक्षमभि तिष्ठति । स्थितिक्रियां प्रति साध्यसाधनलक्षणः संबन्धोऽभिना द्योत्यते । द्विर्वचनमन्तरेण वीप्सा न गम्यते इति द्विवचनम् । 'साधुर्देवदत्तो मातरमभि' इति । मातृविषये साधुत्वलक्षणं कंचित् प्रकारमापन्नो देवदत्त इति । इह विषयविषयिलक्षणसंबन्धोऽभिना द्योत्यते इति ।
यदत्रेत्यादि । योऽत्र ममांशमाभजते स दीयतामित्यर्थः । आभजनक्रियाजनितः स्वीकारक्रियाजनितो वा स्वस्वामिलक्षणसंबन्धः परिप्रतिभ्यां द्योत्यते इति । एवं लक्षणादिषु च परिप्रत्योः पूर्ववद् उदाहरणं वेदितव्यम् । वृक्षमनु विद्योतते विद्युदिति लक्षणे । शेषं पूर्ववत् । ननु कथं साकल्यस्य संहिताम् अनु प्रावर्षदिति । नहि साकल्यस्य संहिता प्रवर्षस्य चिह्नम्, अपि तु हेतुः । यदैव साकल्यस्य संहिता बहिर्निष्काश्यते, तदैव देवो वर्षतीति ? सत्यम् । हेतुरपि लक्षणं भवत्येव । तेनापि लक्ष्यते इति कृत्वा परत्वाद् हेतुलक्षणा तृतीया न भवति व्यक्तिप्रधानत्वाद् अस्येति, पर्वतमनु वसिता सेनेति । पर्वतेन सहानुबद्धा सेनेत्यर्थः । अनु वसितेति । अनुपूर्व- षिञ् बन्धने । निष्ठेति क्तः । अत्र सहभावलक्षणः संबन्धः । अन्वर्जुनं योद्धारः, उपार्जुनं योद्धारः इति, तत्र हीनोत्कृष्टलक्षणः संबन्धः । अर्जुनादन्ये योद्धारो हीनाः निकृष्टा इत्यर्थः । आधिक्येत्यादि । अधिकस्य भाव आधिक्यम्, आधिक्यं च तदर्थश्चेति आधिक्यार्थः । तत्रोपशब्दस्तेन योग इति विग्रहः । अध्यारूढस्याधिक इति सद्यआद्यत्वान्निपात्यते । स च कर्तृसाधनः कर्मसाधनश्च गत्यर्थाकर्मकेत्यादिना रुहेः कर्तरि कर्मणि च क्तस्य विधानात् । अध्यारूढः खारीं द्रोण ः इति कर्तरि, अध्यारूढा खारी द्रोणेनेति कर्मणि |