________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१४९ तत्र यदा कर्मसाधनस्याध्यारूढशब्दस्याधिक इति निपातः, तदा अधिका खारी द्रोणेनेत्युक्तार्थत्वाद् द्वितीया नाम मा भूत् । यदा तु कर्तृसाधनस्याध्यारूढस्याधिक इति निपातः, तदा अधिकः खार्यां द्रोण इति कथं न द्वितीया अधिकरणस्यैव विवक्षितत्वादिति ।
चेत्, एवं तर्हि तदर्थेनोपशब्देनापि योगेऽधिकरणमेव विवक्षितमिति कुतोऽधिकाधिकसंबन्धे षष्ठीति । तथा स्वाम्यर्थाधियोगे चेति । ब्रह्मदत्तो नाम स्वामी पञ्चालानां तत्र परिपालनादिक्रियाकृतो विषयविषयिभावोऽस्तीति सप्तमी न विरुध्यते । यदा तु पञ्चालान् जनपदान् प्राप्य ब्रह्मदत्तो विवर्धते इति विवक्ष्यते तदा विपरीतम् उदाहरति - ‘अधि पञ्चालेषु' इति । ततः कुतोऽत्रापि स्वस्वामिसंबन्धे षष्ठीति ।।३०८।
[क० च०]
कर्म० ।कर्म क्रियेति पर्यायः । क्रियां प्रोक्तवन्तः कर्मप्रवचनीयाः । “कृत्ययुटोऽन्यत्रापि" (४।५।९२) इति वचनात् कर्तर्यतीतेऽनीयप्रत्ययः ।प्रोक्तवन्त इति द्योतितवन्त इत्यर्थः । अतीत इति । एतेन उपसर्गतादशायामभ्यादयः कथं क्रियाद्योतकाः, तस्मात् सम्प्रति कर्मप्रवचनीयतादशायां न क्रियां प्रतिपादयन्तीति प्रतिपादितम् । ननु अनया व्युत्पत्त्या विंशतिरेवोपसर्गाःकर्मप्रवचनीयाःकथं न भवन्तीत्याह - यथाकथंचिदिति । ननु प्रोक्तवन्त इत्यर्थस्य द्योतितवन्त इत्यर्थं परिकल्प्य कथम् अभ्यादयो गृह्यन्त इति । लोकतः प्रतिपत्तव्या इति पत्री। 'वा गतिगन्धनयोः' (२।१७) इत्यत्र पूर्वं क्रियावाचिनो वाशब्दस्येदानीं विकल्पार्थस्य सत्त्वादित्याह - लोकत इति ।
ननु यदि लक्षणादीनाम् अभ्यादयो न द्योतकास्तदा किमर्थं प्रयुज्यन्त इत्याह - योत्यः पुनरिति ।तथा अभ्यादीनां लक्षणादयो विषयभूता एव, किन्तु द्योत्यार्थो लक्षणभावः संबन्धादिद्वितीयावाच्य इत्यर्थः । एवं च सति षष्ट्या बाधक इति पर्यवसितम् । ननु वीप्यमानानां वृक्षाणां स्थितिक्रियां प्रति अनेकगतसाधनसंबन्धोऽभिना द्योत्यते । अर्थाद् वृक्षाणामपि अनेकप्रतीतिर्भविष्यति, किमर्थं द्विवचनम् उक्तार्थत्वाद् इत्याह - द्विर्वचनमन्तरेणेति । द्विर्वचनमन्तरेण वृक्षमभितिष्ठतीत्युक्ते लक्षण एव संगच्छते इति हेमकरः । वस्तुतस्तु “लक्षणवीप्सेत्थम्भूतेष्वभिः" इति सप्तमीनिर्देशाद् वीप्सास्वरूपस्य व्याप्यव्यापकभावः संबन्धोऽभिना द्योत्यते इत्येव वक्तुमुचितम् । तत् कथं