________________
१५०
कातन्त्रव्याकरणम्
साध्यसाधनसंबन्धोऽभिना द्योत्यते इत्युक्तम् इत्याशङ्क्याह - द्विवचनमन्तरेणेति । स्वीकारक्रियाजनितो वेति । भागशब्दस्तु – 'यत् त्वया स्वीकृतं तद् दीयताम्' इति हेमकरः। स्वस्वामिलक्षणसंबन्ध इति विषयभावेनेति शेषः ।
ननु हेतौ कर्मप्रवचनीयार्थम् “अनुर्लक्षणे" (अ० १।४।४८) इति सूत्रान्तरं पाणिनिना कृतम्, अस्मन्मते तदभावात् का गतिरित्याह - कथं साकल्यस्येति । ननु तर्हि हेतुत्वलक्षणत्वोभयविवक्षायां हेतौ तृतीया स्यात् । लक्षणत्वमात्रविवक्षायां कर्मप्रवचनीयत्वस्य साफल्यादित्याह - परत्वाद् हेतुलक्षण इति । ननु अनुवसितेति अवाप्योरकारलोपे विभाषयेष्यते । यथा 'पिनद्धं वतंसः' इति । तदुक्तम् -
वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः।।
टापं चापि हलन्तानां क्षुधा वाचा निशा गिरा ॥ इति । अस्यायमर्थः- भागुरिराचार्योऽवाप्योरकारलोपं वष्टि इच्छति न त्वन्यः, तन्मते अनुवसितेति कुलचन्द्रस्यापि मतमेतद् इत्युभयप्रामाण्याद् विकल्पः सिद्धः। हलन्तानां व्यञ्जनान्तानां टापं च स्त्रियाम् आकारं च वष्टि इत्यन्वयः । तदेव विवृणोति - क्षुधेत्यादीति श्लोकार्थः । ननु कर्मप्रवचनीय इत्यनुवर्तमाने यस्मादधिकवचनं ततः सप्तमीति पाणिनिसूत्रम्। अस्यार्थः- अस्मादिति ल्यब्लोपे पञ्चमीति । तेन यत् खार्यादिकमाश्रित्याधिकमध्यारूढं तत्र कर्मप्रवचनीययुक्ते खार्यादौ सप्तमी भवतीत्यर्थः । अत्र "उपोऽधिके" (अ० १।४।८७) इत्यपरसूत्रेणाधिकार्थे उपशब्दस्य कर्मप्रवचनीयत्वाभिधानात् तद्युक्तेऽर्थे भवतीति गम्यते । तदभावादस्मन्मते किं स्यादित्याहआधिक्येत्यादि । अधिकरणस्यैव विवक्षितत्वादिति परैरिति शेषः । नन्वत्र कर्तृसाधनाधिकशब्दसमानार्थोपशब्दयोगः कथं गृह्यते । कर्मसाधनाधिकशब्दसमानार्थोपशब्दयोगः कथन्न गृह्यते । ततश्च अध्यारूढा खारी द्रोणेनेत्यर्थे खारीशब्दाल्लिङ्गार्थमात्रे प्रथमैव बाधिकेति । 'खार्युपद्रोणः' इति द्रोणशब्दात् कथं सप्तमी न स्यात्, नैवम् । कर्मसाधनाधिकशब्दार्थे उपशब्दस्य कर्मप्रवचनीयत्वानङ्गीकारादित्याह - विवक्षितमिति । सूत्रे चकारस्यानुक्तसमुच्चयार्थत्वादिति भावः । कुतोऽधिकाधिकिसंबन्धे षष्ठ्यपीति । ननु कथमत्र षष्ट्याः प्राप्तिः, यावता खारीमध्यारूढो द्रोण इतिवत् तदर्थोपशब्दयोगे द्वितीयाप्राप्तेः कुतोऽत्र द्वितीयेत्येवं वक्तुं युज्यते ? सत्यम्, उपशब्दस्य क्रियाभावान्न कर्मत्वम्, क्रियाव्याप्यस्यैव कर्मत्वनिश्चयात् ।