________________
कातन्त्रव्याकरणम्
उपगोः स्वम् औपगवम् । एवमुपगोरपत्यम् औपगव इति ? सत्यम्, तस्येदमेवमादेरणः स्वराणामादावाद् वृद्धिमतः इतीयोऽस्ति बाधकस्तद्बाधनार्थं वचन-मिदम् । तेन भानोरपत्यं भानवः, श्यामगोरपत्यं श्यामगवः । उणादिवदभियुक्तैस्तद्धिता व्युत्पायाः। साध्यमपश्यताऽनेन दिङ्मात्रमिह दर्शितम् ।।३६७।
[वि० प०]
वाऽण | अपत्यस्य सम्बन्धिशब्दत्वाद् अपत्यवतः शब्दात् प्रत्ययो भवन् अर्थात् षष्ठ्यन्तादेव भवतीत्याह - षष्ठ्यन्ताद् इत्यादि ।धर्मेणापत्यम्, धर्मायापत्यम्, धर्मादपत्यम् इत्यादौ न भवति, सापेक्षत्वादिति । अपत्यवान् हि देवदत्तादिरपेक्ष्यते । कस्य धर्मेणापत्यं देवदत्तस्येति । अतः किं तस्यापत्यमिति षष्ठीनिर्देशेन । यद्येवम्, पुत्रपयित्वादपत्यशब्दस्य पौत्रादौ कथं प्रत्ययः, न खलु तदपत्यम् । तथाहि लोके पितामहस्योत्सङ्गे बालकमासीनं दृष्टा कश्चित् कञ्चित् पृच्छति कस्येदमपत्यम् इति ? स आह देवदत्तस्येति उत्पादयितारं व्यपदिशति नात्मानमिति । तदयुक्तम्, नायमपत्यशब्दः पुत्रपर्यायः, किन्तर्हि न पतति वंशो येन जातेन तदपत्यमित्यन्वर्थनिर्देशः ? तेनापत्यापत्यमप्यप-त्यमुच्यते । यतस्तेनापि जातेन पूर्वेषाम् अपाये स्ववंशस्यापतनं स्यात् । ____ एवं चाद्यप्रकृतेरुत्तरं सर्वमपत्यतया सामान्येन विवक्षितमिति । अतो न्यायादेवापत्यप्रकृतेः प्रत्ययविधिरित्यालोच्याह - अपत्येत्यादि ।लोके यद्यपि पृष्टः पितामहो नात्मानं व्यपदिशतीत्युक्तम्, तथापि खलु पृच्छता यस्यापतनं स न जिज्ञासितः । किन्तर्हि उत्पादयितेति ? तथैवोत्तरमपीति । ननु "एको गोत्रे" (अ० ४/१/९३) इति वचनस्याभावादपत्यप्रत्ययान्तादपरोऽप्यपत्यप्रत्ययः । कथं न स्यादिति न देश्यम् । एकेनैवापत्यप्रत्ययेनापतनार्थस्य प्रतिपादितत्वात् कथमपरःप्रत्ययः । यद्येवम्, गार्ग्यस्यापत्यं गाायणः, दाक्षेरपत्यं दाक्षायणः इत्याह - पौत्रादेस्त्वित्यादि । पौत्रादिवाचिनः पुनः शब्दात् प्रशस्ये प्रशंसायुक्त एवेत्यर्थः । आधेनैव प्रत्ययेनापतनार्थ उक्तः, पुनः प्रत्ययविधानं प्रशंसार्थमेव प्रतिपादयतीति भावः। तत्र प्रशस्यो गुर्वायत्त उच्यते । गुरुश्च पिता भ्राता ज्यायान् पितृव्योऽन्यो वा सगोत्रः स्थविरतरः। तत्र पित्रादौ जीवति सति तदादिष्टमाचरन् प्रशंसार्थं गाायण उच्यते, तथा यो गुरावसत्यपि न स्वैरी । मृतस्यापि गुरोस्तदादिष्टाचरणात् प्रशंसा) गाायण इत्युच्यते । तथा ज्ञानेन