________________
नामचतुष्टयाप्याये षष्ठस्तद्धितपादः
४१७ वयसा वाऽधिकस्यासमानगोत्रस्याप्यायत्तः प्रशंसार्थत्वातद् गार्यायण उच्यते । यदि पूर्व गुर्वायत्तोऽभूत् सोऽपि गाायण उच्यते, तथापि न दोषः । यस्मादेवं विशेषस्य विवक्षायां गाायणशब्दः सर्वत्रैव प्रयुज्यते । तस्माद् "जीवति वंश्ये युवा, प्रातरि च ज्यायसि वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति" (अ० ४/१/१६३,१६४,१६५) इति नाद्रियते । युवेति प्रशस्य इत्यर्थः । स्त्रीवर्जिते इति । स्त्रियामपत्ये न भवति । यथा गार्गी स्त्री, युक्तं चैतत् स्त्रिया वर्जनं प्रशस्यत्वानुपपत्तेः । सा हि पत्यादिष्टमाचरन्ती कथं प्रशस्या नाम | तथा च शास्त्रम् ‘पतिरेको गुरुः स्त्रीणाम्' इत्यादि । तस्मान्नात्र प्रशंसाभिधीयते । उपग्वपत्यं चेति न चोद्यमिह तद्धितवृत्त्या समासवृत्तिर्बाध्यत इति । वाक्येन पक्षे तद्धितवृत्तेरेव बाधितत्वात् । पक्षान्तरे समासोऽपि न निवर्तते, बाधकाभावात् ।।३६७।
[क० च०]
वाऽण | सन्धिसाम्येऽपि आणिति दीर्घादि शक्यते । निमित्तस्यापत्यस्य ह्रस्वादेः साहचर्यात् । नञ्पूर्वात् पतेरौणादिकयप्रत्ययेऽपत्यमिति रूपम् | “प्रत्ययः परः" (३/२/१) इति वचनं पूर्वां प्रकृतिमाक्षिपतीत्याह-षष्ठ्यन्तान्नाम्न इति । अपत्य इति नौपश्लेषिकाधारे सप्तमी कार्थी निमित्तं कार्यमित्येवं निर्देशात् “वाऽपत्येऽण" इत्यकरणादाह - अपत्येऽभिधेय इति . औपगव इति । उपगुशब्देनात्र वंश उच्यते । एवं पाण्डोरपत्यं 'पाण्डवः' इत्यत्रापि पाण्डुशब्देन पाण्डुवंशस्यादिभूत एवोच्यते इति परः । अस्यार्थः- गोत्रेऽभिधेये एक एवापत्यप्रत्ययो भवति नान्यत् । भवन्मते तु सूत्राभावाद् उपगोरपत्यम् इत्यण, औपगवादिण्, औपगवेरायनण् इत्यपत्यप्रत्ययान्तात् पुनरपत्यप्रत्ययान्तरं कथं न स्यात् । नैवम्, एकेनैवापत्यप्रत्ययेनोक्तार्थत्वादपरोऽप्यपत्यप्रत्ययो न स्याद् अतः सूत्रमन्तरेणापि जन्यजनकसंबन्धादादिप्रकृतेरेवेत्याह-अपत्यसामान्य इति । तर्हि कथं गार्ग्यस्यापत्यं गाायणः इत्यादौ पुनरपत्यप्रत्यय इत्याहपौत्रादेस्त्वित्यादि । प्रशस्यत इति प्रशस्यः “दुहिशंसिभ्यां क्यप्" अथ सूत्रमिदमकृत्वा "तस्येदमेवमादेः" (२/६/७) इत्यत्रापत्यार्थः प्रवेश्यताम् । यथा उपगोः स्वम् औपगवम्, तथा उपगोरपत्यम् इति औपगवोऽपि ? सत्यम् ।? तस्येदमेवमादेरणः स्वराणामादावाद् वृद्धिमतः इतीयो बाधकस्तद्बाधनार्थमिदम् । तेन भानोरपत्यं भानवः, श्यामगोरपत्यं