________________
४१८
कातन्त्रव्याकरणम्
श्यामगव इति सिद्धम् । अन्यथा 'स्वराणामादा' इत्यादिना ईय एव स्यादिति टीका | पञ्याम् अतः किम् - तस्यापत्यम् इति । ननु गुरुकुलमित्यत्र नित्यसापेक्षे समासवद् धर्मेणापत्यम् इत्यादावपत्यप्रययः स्यात् ? सत्यम् । नित्यसापेक्षेऽपत्यप्रत्ययो न भवति, अनभिधानात् । तस्मान्नात्र प्रशंसेति । अत एव "जीवति युवा" (अ० ४/१/१६३) इति सूत्रे परेणापि पुंसा निर्दिष्टमिति भावः ।
[पुस्तकान्तरे पाठः] वाऽण | "तस्यापत्यम्" (अ० ४/१/९२) इति परसूत्रम् । अस्यायमर्थः- तस्येति षष्ठ्यन्तमनुकृत्य लुप्तपञ्चमीको निर्देश इत्याह - तस्येति । षष्ठ्यन्तादित्यर्थः। अथ तस्येत्यभावाद् यथा कर्तरि कारके वर्तमानात् प्रत्ययो भवन् कर्तृवाचकादेव स्यात् । तथात्रोपात्तस्वरूपमपत्यमित्यर्थः स्यात् ? सत्यम् । अत एवाह - अपत्यशब्दस्य सम्बन्धिशब्दत्वादिति ।अथातः किमायातम्, उच्यते- सम्बन्धिशब्दत्वात् सम्बन्धिनमपेक्षते (ततः सम्बन्धिविशेषणविशेष्यम्)। ततः प्रकृत्यर्थो विशेषणम्, प्रत्ययार्थश्च विशेष्य इति अपत्यवतः स्यात् । धर्मेणापत्यमिति । अथ किमर्थमिदमुच्यते, पूर्वं सम्बन्धिशब्दादेवापत्यवत एव भवतीति निश्चितम्, धर्मेणापत्यमित्यादौ च कः प्रसङ्गः ? सत्यम् । सम्बन्धिशब्दत्वादिति हेतुरुक्तः पूर्वभेदोऽत्रापि सम्बन्धोऽस्तीति । अथवा सम्बन्धः किल क्रियावाचकपूर्वो भवतीति धर्मेणापत्यमित्यादौ तु व्यक्तिर्वा किं वाऽपत्यमिति जायते, भवतीति गम्यते । ततश्च जन्यजनकद्वारेण चेदत्रापि जन्यजनकसंबन्धो विद्यते । अथ तत्रापि सम्बन्धिसापेक्षे युक्तार्थे स्यादेव प्रत्ययः । यथा 'देवदत्तस्य गुरुकुलम्' इति । नैवम्, कश्चिदाहअपेर्बाहुलकत्वादिति तत् प्राप्तं प्रत्ययसापेक्षे न स्यात् । किञ्च युक्तार्थे तावत् प्रत्ययस्य स्वातन्त्र्येणार्थं प्रतिपादयन् शक्तिरस्तीति युक्तार्थे सति सवपिक्षायामपि स्यात् । अत्र किल प्रकृतिः प्रत्ययानामर्थमभिधत्ते । प्रकृतिर्हि जहन्निजार्था सती प्रत्ययमनुगच्छति प्रत्ययश्च प्रकृतिमिति । यथा औषधस्य मधुना योगः पृथङ् नोपपद्यते, तथात्र सम्बन्धिसापेक्षेऽण्प्रत्ययविधिः केवलं 'धर्मेणापत्यम्' इत्यत्र युक्तार्थयोग्यता हेत्वर्थः विभक्तिलोपे तदर्थाप्रतीतेः । अत एवाख्याते भ्रातृपुत्रीयतीति युक्तार्थत्वाद् इत्युक्तम् । एतेन प्रत्ययानां धर्मेणापत्यमित्यादावजहत्स्वार्थभावः। तस्यापत्यमिति तस्य षष्ठ्यन्ताभिधेयमपत्यमण्प्रत्ययाभिधेयं स्यात् । अतः ‘अपत्ये' इति सूत्रे यदुक्तं तत्र