________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः स्यादिसंबन्धो मा भूदित्येतदर्थम् । अतो वर्तमानकाल एव न्यायादिति शङ्का निरासिता स्याद् अपत्यसम्बन्धिमात्राद् विधानाद् विद्यमानम् अविद्यमानम् वाऽपत्यम् इति भावः । परस्य तच्छब्दभूतस्याणः प्रकृतिभूतत्वेनार्थस्य तस्येत्यर्थः ।
कश्चित् पृच्छति पितामहमित्यर्थः । अत एव नात्मानमिति व्यपदिशति । कस्यायं बालक इति तदापत्यशब्दं गृहीत्वा फक्किका कृता । बालकशब्देन किमायातम् ? सत्यम् । अपत्यशब्दः पुत्रपर्याय इति पूर्वपक्षः कृतः स्यात् । ततोऽत्र बालकशब्देन पुत्र उच्यते, षष्ठ्यपि जन्यजनकसम्बन्धे । अत एव वक्ष्यति उत्पादयितेति टीकायामपि बालक इति पाठः । पुस्तकान्तरे अपत्यमिति पाठः, तदा विसंवादो नास्ति । अन्वर्थ इत्यादि । नपूर्वात् पतधातोः करणे यप्रत्ययो भवति औणादिकः । अपाये इति । अपतनमिति अपायाभाव इत्यर्थः । न्यायादेव यस्यायं जन्म इति व्यवहारो धर्मेण उपगोरपत्यम् इति वंशे स पुनराद्यप्रकृतिं विहाय सर्वेषामेवास्ति, अतो विधिराद्यप्रकृतेरेव स्यात् । एक इति । गोत्रे वंशे एक एवापत्यप्रत्ययो न द्वितीयः । एकेनैवेति । वंशापतने सर्वेषामेव करणभूतत्वात् । अथ यद्यादिभूतादेव स्यात् तदा ‘पाण्डवः' इत्याधुदाहरणम्, न हि पाण्डुरादिप्रकृतिरिति ? सत्यम् । अन्तरान्तरे पाण्डोर्ये ये वंशा जनिष्यन्ति तेषामाद्यभूतः पाण्डुरिति स्यात् । एतदुदाहरणेन तत् सूत्रं सुखार्थं न स्यादिति सूचितम् । तथाहि "तस्येदम्" (२/६/७) इत्यनेन सामान्यविहितेनाणा सिध्यति, किन्तु स्वराणामित्यादिना ईप्रत्ययबाधनार्थं वचनम्, तस्य बाधकं तद्बाधापि स्यात् । प्रशंसां प्रतिपादयतीति इयमेव गतिः । यदि द्वितीयाद्यपत्यप्रत्ययेऽप्यपत्यप्रत्ययार्थः स्यात् तदा निष्फलं स्यात् । अतो विशेषप्रशंसारूपा प्रशस्यते । प्रशस्य इति गुर्वायत्तो यः प्रशस्यो गुरुश्च पिता भ्रातर इत्युक्तमेव । ननूक्तार्थानामायत्ता एव पत्युरेव । किं कारणमित्याह - तथा चेति । वाग्रहणादिति । अथ वाग्रहणेन किम् ? यत्र वाग्रहणं नास्ति तत्रापि वाक्यदृष्टत्वात् । यथा देवदत्तस्य भावो देवदत्तत्वम्, प्रकृष्टः पाचकः पाचकतरः, पुनः पुनः पचति पापच्यते । तथात्रापि उपगोरपत्यम् औपगव इति ? सत्यम् । तत्र यदा प्रकृतिः पुनः पुनः पाके वर्तते तदावश्यमेव यशब्दः स्यात् । यदा पाकमात्रे तदा पुनःपुनः शब्देन वाक्यमेव सर्वत्र ततो यदापत्यसम्बन्धिदेवदत्ते विवक्ष्यते, तदाप्युपचारेऽप्युपगोरपत्यमिति स्यादिति । अथ तथापि किमायातम्, सामान्ये वर्तमानेऽपत्यशब्दसन्निधानात् तत्सम्बन्धी प्रतीयते,