________________
नामचतुष्टयाप्याये षष्ठस्तद्धितपादः
४१५ विग्रहः । न च प्रत्यपत्यविभागेनान्यस्मादन्यस्मात् प्रकृतिविशेषाद् अन्यश्चाणिणायनणादिः प्राप्नोति, यथा उपगोरपत्यम् इति विग्रहे उपगोरण, औपगवादिण्, औपगवेरायनण्, औपगवायनादिण् इत्येकेनैवापत्येनार्थस्योक्तत्वाद् इह जन्यजनकसंबन्ध एव विवक्षित इति सूत्रमन्तरेणाप्याद्यप्रकृतेरेवाणादिविधिः । स च भवन्नथदिव प्रत्यय इत्याह - अपत्यसामान्येनेत्यादि । कथन्तर्हि गाय॑स्यापत्यं गार्यायणः, दाक्षेरपत्यं दाक्षायण इत्याह - पौत्रादेरित्यादि । पौत्रादेरपत्यात् पुनः प्रशंसायुक्तेऽपत्ये इत्यर्थः । प्रशस्यते इति प्रशस्यः, शन्सेः क्यप् ।
___ अपत्यार्थे सिद्धे पुनरपत्यविधानं प्रशंसामेवाभिदधातीति भावः । यो गुरावसत्यपि न स्वैरी, स मृतस्यापि गुरोस्तदादिष्टाचरणात् प्रशंसर्थं गाायण उच्यते । पूर्व गुर्वायत्तोऽभूदिति गार्यायण इत्युच्यते, तथापि न दोषः सर्वत्र गाायणशब्दो विशेषाविवक्षायामप्यस्त्येव । मृतेऽपि प्रशंसा) गाायण एवेष्यते, एवं तु आचार्याः स्मरन्ति । अभिजनप्रबन्धसंभूते पित्रादौ जीवति सति पौत्रादेर्यदपत्यं स गुर्वायत्त उच्यते । तथा मृते पित्रादौ वंश्ये भ्रातरि ज्यायसि जीवति सति यवीयान् भ्राता गुर्वायत्तः । तथा भ्रातुरन्यस्मिन् पितृव्ये पितामहभ्रातरि वा ज्ञानेन वयसा वाऽधिके जीवति पौत्रप्रभृतिर्यदपत्यं जीवदेव गुर्वायत्त इति । तस्मादेकगोत्रे भिन्नगोत्रेऽप्यभिधानं दृश्यते । अत इह "जीवति तु श्ये युवा" (अ० ४/१/१६३) इति नाद्रियते । कथं 'गार्यायणो जाल्मः' इति जाल्मशब्दादत्र कुत्सा गम्यते, न गाायणशब्दात् । अनेन तु विशेषः प्रदर्श्यते । पदसंस्कारकं हि व्याकरणम् । स्त्रियामपत्ये तु गार्गी । पतिरेको गुरुः स्त्रीणां वर्णानां ब्राह्मणो गुरुः' इति नात्रापतनकृता प्रशंसाभिधीयते इति भावः । अपत्य इत्येकवचनान्तेन निर्देशः । तेनैकस्मिन्नेवापत्ये स्यात् । तथा वर्तमान एवास्तेर्गम्यमानत्वात् । यथोक्तम्यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिभवतीतिपरः । प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति गम्यत इति ।
___ न चोद्यं नेह लिङ्गवचनादिकं विवक्षितम्, यथा 'ब्राह्मणो न हन्तव्यः, सुरा न पेया' इति । ब्राह्मणी, ब्राह्मणौ, ब्राह्मणाश्च न हन्यन्ते इति द्वे बढ्यश्च सुरा न पीयन्ते । अवश्यं हि येन केनचिल्लिङ्गादिना निर्देशः कर्तव्यो नान्तरीयकत्वात् तस्येहोपादानम् । यथा धान्यार्थिना पलालादेरप्रधानस्यापि । वाग्रहणाद् उपगोरपत्यम् उपग्वपत्यं चेति पक्षे समासः स्यादेव । न चोद्यं समासवृत्तिस्तद्धितवृत्त्या बाध्यत इति । ननु चेहाक्रियमाणोऽपत्यार्थस्तस्येदमेवमादौ प्रविशति, ततश्च तेनैव सिध्यति । यथा