________________
॥श्रीः॥ अथ कातन्त्रव्याकरणे द्वितीये नामचतुष्टयाध्याये
षष्ठस्तद्धितपादः
३६७. वाऽणपत्ये [२/६/१] [सूत्रार्थ]
अपत्य अर्थ की विवक्षा में षष्ठ्यन्त नाम (स्याद्यन्त पद) से वैकल्पिक अण् प्रत्यय होता है ||३६७।
[दु० वृ०]
षष्ठ्यन्तान्नाम्नोऽपत्येऽभिधेयेऽण् प्रत्ययो भवति वा । उपगोरपत्यम् औपगवः । एवम् पाण्डवः, आश्वपतः, शैवः, प्रौष्ठः । अपत्यसामान्यविवक्षायाम् आद्यप्रकृतेरेव । पौत्रादेस्तु प्रशस्य एवापत्ये स्त्रीवर्जितेऽणादयोऽभिधीयन्ते । वाग्रहणाद् उपगोरपत्यम् - उपग्वपत्यं च स्यात् ।।३६७।
[दु० टी०]
वाऽण० | प्रत्ययः पर इति वचनं पूर्वां प्रकृतिमाक्षिपति, अपत्यस्य हि सम्बन्धिशब्दत्वाद् यस्य तदपत्यं तत एव स्यात् । धर्मेणापत्यम्, धर्मादपत्यमिति विवक्षया नैव प्रत्ययविधिःसापेक्षत्वादित्याह - षष्ठ्यन्तादित्यादि ।तथा कम्बलोपगोरपत्यं देवदत्तस्येत्यत्र नैव भवति असंबन्धादिति । तर्हि य एव जनकस्तत एव स्यान्न त्वपत्यापत्य इति । तथा च लोके पितामहस्योत्सङ्गे बालकमासीनं दृष्ट्वा कश्चित् पृच्छति 'कस्येदमपत्यम्' ? स आह - देवदत्तस्येति, इंसादयितारमुपदिशति नात्मानम् । नैवम्, न पतन्त्यनेनापत्यमिति इहार्थनिर्देशः। तेनापत्यापत्यमप्यपत्यशब्दवाच्यम् । येन जातेन यावतामपायेष्वपतनं तावतामपत्येन मुख्य एव योग इति ।
यच्चोक्तम् - उत्पादयितारं व्यपदिशति नात्मानमिति, न खलु तेन यस्यापतनं स जिज्ञासितः, किन्तर्हि उत्पादयिता एवेति । अत इह तस्यापत्यमिति न कृतम्, किं च तच्छब्देन हि जनकस्यैवाभिधानं स्यात् । अथोपचारात् सर्वपूज्यानां भविष्यति, एवमपि किमनेनार्थमूलेनेति । उपगूनाम्, पाण्डूनाम्, अश्वपतीनाम्, शिवानाम्, प्रोष्ठानाम् अपत्यमिति विग्रहः अथवा उपगुशब्देन उपगुवंश उच्यते, उपचारात् । उपगोरपत्यम् इति