________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
__३७ सर्वथा सिद्धस्यैव विशेषणत्वादिति महान्तः । तर्हि अनेनैव न्यायेन क्तिप्रत्ययार्थस्य कर्तुः साध्यरूपा पचतिक्रिया कथं विशेषणं न स्यात् ? सत्यम् । कारकैः सह साध्यता-विशिष्टक्रियान्वयो भवत्येव । कथम् अन्यथा कारकत्वसिद्धिरिति दिक् ।
तर्हि 'आख्यातं क्रियाप्रधानम्' इति कथमुच्यते ? सत्यम् । साध्यत्वेनैव क्रियायाः प्राधान्यं न त्वन्वयबोधेन ।अन्वयबोधे त्वाख्यातार्थस्यैव प्राधान्यम् । नन्वन्वयेन यादृगुपस्थाप्यते तादृशस्यैव संज्ञा युक्ता । तथाहि, यत्र यदवधिभूतापायविशिष्टः कर्ता प्रतीयते तत्रैव संज्ञेति । ततो 'वृक्षात् पर्णं पात्यते' इत्यत्र संज्ञा न स्यादिति चेत्, नात्रापि कर्तृत्वार्थस्य विद्यमानत्वम् अस्त्येव । 'अपैति' इत्यनेन ‘अपायं भावयति' इत्येव प्रतीतेः पर्णस्यापायभावनाश्रयत्वाक्षतत्वात् । किन्त्विह इनर्थक्रियान्तरवशात् कर्मसंज्ञा जाता । न ह्येतावता वस्तुनः कर्तृत्वमपसरति, एकस्यैव नानापदैर्नानारूपेणाभिधानात् । न हि कर्तृसंज्ञापि अपैतीत्यस्यार्थः । येन 'वृक्षात् पर्णं पात्यते' इत्यत्र कर्तृसंज्ञाया अभावाद् दोषाशङ्का, किन्तु अपैतीत्यत्रापायसाध्यताबोधे कर्तृत्वसम्भवादेवास्य कर्तसंज्ञा जाता। तुष्यतु वा दुर्जनः। यद्यप्यन्वयबोधे कर्तृत्वप्रतीतिस्तथापि स नात्र विवक्षितः, किन्तु साध्यताविशिष्टापायमात्रं विवक्षितमिति। अत एवोक्तम् – 'आख्यातं क्रियाप्रधानम्' इति। तर्हि "यतोऽपायः" इत्येव कथं न कृतमिति चेत्, नास्ति क्षतिरिति । यावता यया कयाचिद् विभक्त्याऽवश्यं निर्देशः कर्तव्य इति संक्षेपः ।
___वाग्रहणं प्रत्येकक्रियासंबन्धिनो हि संज्ञिनः परिग्रहार्थम् । न च वाशब्दो विकल्पार्थः कथन्न स्यादिति वाच्यम्, निःसन्देहार्थं तद् वेत्यकरणात् । यदि संज्ञिनः समुच्चयार्थं वाग्रहणं न कृतं स्यात् तदा क्रुद्धाद् उपाध्यायादपसरणभीतोऽधीते इत्यत्रैष स्यात् । एतेन वाग्रहणं जुगुप्सादियोगेनापि अपादानसंज्ञासिद्ध्यर्थमिति वररुचिमतमपास्तम् । यतो भयमिति । 'यतः' इति हेतौ पञ्चमी । तेन यद्धेतुकं भयं तदपादानमित्यर्थः । यत आदत्ते इति । यदवधिकं साध्यत्वेन ग्रहणं तदपादानमित्यर्थः । ननु 'अधर्माज्जुगुप्सते' इत्यादिवद् बुद्धिकृतापायस्य विद्यमानत्वात् किं भयग्रहणेन आदत्ते इत्यनेन च ? सत्यम् । यतोऽपैतीत्यस्य प्रपञ्चार्थमिदमुच्यते । आगमयतीति आङ्पूर्व इनन्तो गमिरध्ययने वर्तते । ननु भवन्मते ध्रुवग्रहणाभावादवधिमात्रस्यैव अपादानत्वं कथं प्रतीयते इत्याशङ्क्याह-यत इत्यवधिमात्रार्थमिति ।तेनेति । यतो ध्रुवग्रहणमदत्त्वा प्रसिद्ध्यर्थं यत इत्युपात्तम्, तेन चलस्यापि संज्ञा सिद्धा । ध्रुवशब्दोऽपादाने तस्य निश्चलार्थे प्रसिद्धत्वाच्चलस्य संज्ञा न स्यादिति चलमचलं चेति परसूत्रं कटाक्षितम् ।