________________
कातन्त्रव्याकरणम् प्रत्ययार्थस्य विशेषणत्वेन गौणत्वाच्च ‘पचतो देवदत्तस्य धनम्' इतिवत् 'पचति देवदत्तस्य धनम्' इति पचनक; सह धनान्वयो न प्रतीयते। तदुक्तम्,
यथा कृदन्तवाच्यस्य साधनस्य क्रियान्तरैः। संबन्धः स्यात् तथेहापि नाख्याते स कथं भवेत् ॥ पचतो धनमित्येवं तिङोऽपि स्याद् धनान्यः।
क्रियायास्तु विशेष्यत्वे सर्वमेतददूषणम् ॥इति । तथा दण्डिनाप्युक्तम् -
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः। कर्ता ययुपमानं स्यात्र्यग्भूतोऽसौ क्रियापदे ।
स्वक्रियासाधनव्यग्रो नालमन्यदपेक्षितुम् ॥ यत्तु “प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः" इत्युक्तं तदाख्यातव्यतिरिक्ते बोध्यम् । अथ तर्हि ‘पचति देवदत्तः' इत्यत्राख्यातप्रत्ययार्थस्य विशेषणत्वेन गुणीभूतत्वाद् देवदत्तशब्देन सह सामानाधिकरण्येनान्वयाभावाद् देवदत्तशब्दाद् विशेषकर्तृत्वबोधिका तृतीया कथन्न स्यात् । न च गुणभूतेनाप्येकदेशेनान्वय इति वाच्यम् । यतः पदार्थः पदार्थेनान्वीयते न तु पदैकदेशेनेति न्यायात् । यथा ‘कृतपूर्वी कटम्' इत्यत्र सामान्ये कर्मणि विहितस्य क्तप्रत्ययस्य समासनिविष्टत्वेन गुणीभूतात् कटमित्यत्र विशेषकर्मबोधिका द्वितीयेति । ननु यदि ‘पदार्थः पदार्थेनान्चीयते, न तु पदैकदेशेन'इत्युच्यते, तदा कथं गुणभूतया करणक्रियया कटान्वयः स्यात् ? सत्यम् । 'गुणीभूतापि क्रिया साधनसंबन्धमनुभवति' इति न्यायान्न दोषः । एवं 'पुत्रीयति माणवकम्' इत्यत्रापि | किञ्च "तेन दीव्यति" (२।६।८) इत्यत्र क्रियायाः प्राधान्याद् आक्षिकं देवनमिति क्रियाप्रतीतिः स्यात् न कर्तृत्वप्रतीतिरिति। तस्माद् 'आख्यातार्थस्यैव प्राधान्यं न क्रियायाः' इति । यत्तु ‘पचतो देवदत्तस्य धनम्' इत्यत्र पचनक; सह धनान्वयो न प्रतीयते, तत् पुनराकाङ्क्षाविरहादेवाख्यातस्य स्वभावात् । यथा घटः कर्मत्वम् आनयनं कृतिरित्यनेन ‘घटमानय' इत्यर्थेऽन्वयप्रतीतिर्न स्यात् । यद् वा पचतिपदेन साध्यताविशिष्टः कर्ता प्रतीयते ।विशिष्टे कर्तरि पचनगतसाध्यतांशप्रवेशात् साध्यस्य विशेषणानुपयोगित्वेन साध्यताविशिष्टः कर्तापि धनादेविशेषणं भवितुं नाहतीति