________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः ध्रुवग्रहणस्य प्रसिद्धं निश्चलार्थं खण्डयितुमाह - चलं वा यदि वाऽचलम् इति। अथ ध्रुवस्यौदासीन्यं कुतस्तत्राह - अतदावेशादिति ।तस्मिन् ध्रुवे तस्या अपायहेतुभूतस्पन्दनादिक्रियाया अप्रवेशादित्यर्थः । अथ उदासीनस्य क्रियानिमित्तत्वाभावात् कथं कारकत्वम् ? यदुक्तम्,
धुव्र न कारकं मन्ये नोपकारी भवेद् यतः।
अपायाधारभूतोऽसौ क्रियते न च कथ्यते॥ अयमर्थः- असौ ध्रुवो वृक्षादिरपायाधारभूत इति कृत्वा न क्रियते, प्रसिद्धतया नोच्यते, अपाये उदासीनत्वादिति भावः ? सत्यम् । ध्रुवस्यावस्थानमेव क्रियां प्रति निमित्तम् । यदि वृक्षोऽपि पतति, तदापायसिद्धिर्न स्यादिति भावः । आतदावेशादिति पाठे तु क्रियाया ईषप्रवेशादित्यर्थः। अतः क्रियानिमित्तत्वमस्त्येव । तस्मादपाये यदवधिभूतम् उदासीनस्वरूपं तदपादानमित्यर्थे वृक्षस्यैवापादानसंज्ञा न पर्णस्येति । 'अपसरतो मेषाद् अपसरति मेषः' इत्यादौ तु अपसरणक्रियाभेदापेक्षयाऽवधिभावो विवक्षितः । अपरस्त्वेवं प्रकारेण पर्णस्यापादानत्वं निरस्यति। तथाहि - सूत्रे अपैतीति यत् साध्यक्रियानिर्देशः क्रियते, तद् बोधयति-कर्तृसाध्याया अपायक्रियाया यदवधिभूतं तदपादानमित्यर्थः । नहि स्वसाध्यापायक्रिययाऽवधित्वं पर्णस्यास्ति,येन तस्यापादानसंज्ञा स्यात् । तेनास्य मते साध्यताविशिष्टापायक्रियानाश्रयत्वे सति अंशतस्तदपायाश्रयत्वम् अपादानत्वम् । ननु अपपूर्व- इण्धातुनिर्देशात् कर्तृनिर्देशाच्च धात्वन्तरे कारकान्तरे च न स्यादित्याह -आख्यातं क्रियाप्रधानमिति।
एतेनैतदुक्तं स्यात् - साध्यमानापायक्रियाया यदवधिभूतं तदपादानमित्यर्थः । यदि पनुः प्रत्ययार्थस्यैव प्राधान्यं स्यात् तदा यत्र यदवधिभूतापायविशिष्टकर्तृसंज्ञाप्रतीतिस्तत्रैवापादानत्वमिति। ततश्च ‘वृक्षात् पर्णं पात्यते' इत्यत्र कारकान्तरेऽप्यपादानसंज्ञा न स्यादिति भावः । अत एव विशेष्यत्वेन क्रियायाः प्राधान्यादाख्यात
६. ननु अवस्थानस्य क्रियानिमित्तत्वे वृक्षस्य कथमपादानसंज्ञा ? सत्यम्, विशेषणस्य क्रियानिमित्तत्वे विशेष्यस्य क्रियानिमित्तत्वं कल्प्यते । यथा ‘पञ्चपूलीमानय' इति ।
७. उदासीनस्य कारकत्वं कुत इत्याह - आतदावेशादिति अपायजनकीभूतस्पन्दनजन्यक्रियायाः सहकारित्वादित्यर्थः । यदि वृक्षस्य स्थितिर्न स्यात् तदाऽपायानुकूलपतनमपि न स्यादिति भावः ।