________________
कातन्त्रव्याकरणम् क्रियानाश्रयत्वे सति विभागाश्रयत्वम् । अथ ‘कपालाद् घटो जायते, अधर्माज्जुगुप्सते' इत्यादौ विभागस्याभावादव्यक्तिः स्यात् । न ह्यस्मन्मते एतसिद्ध्यर्थं "जनिकर्तुः प्रकृतिः"(अ०१।४।३०) इत्यादयो योगाः सन्ति चेद्, विभागाश्रयत्वेन प्रतीयमानत्वमिति विशेषणं लक्षणे देयमिति । तर्हि 'त्यजति ग्रामम्' इत्यादावपि ग्रामस्य विभागजनकीभूतक्रियाश्रयत्वे सति विभागाश्रयत्वेन प्रतीयमानत्वाद् अपादानत्वं स्यादिति चेत्, न । अत्र परत्वात् "तेषां परम् उभयप्राप्तौ" (२।४।१६) इति कर्मसंज्ञैव बाधिकेति । अत एवापादानत्वप्राप्तौ 'तरुं त्यजति खगः' इत्यत्र परत्वात् कर्मैवेति वक्ष्यति । अत्र परोऽपि "वमपायेऽपादानम्" (अ० १।४।२४) इति सूत्रं प्रणीतवान् ।
अस्यायमर्थः अपाये यद् ध्रुवं यद् उदासीनम् अपायजनकीभूतक्रियानाश्रयत्वे सति अपायाश्रयत्वम् इति यावत् तदपादानमित्यर्थः । तच्छब्देन बुद्धिस्थीभूतकारकम् उच्यते । यदुक्तम् ,
अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवातदावेशात् तदपादानमिष्यते ॥
___३. ननु विभागजनकीभूत इत्यनेन किं प्रयोजनम्, स्पन्दनादिक्रियानाश्रयत्वे सति इत्यास्तां चेत्, नैवम् । 'धावतोऽश्वात् पतति' इत्यत्र कथमपादानत्वम्, यावता स्पन्दनादिक्रियाश्रयत्वाद् भवितुं न पार्यते, यतो धावनमपि स्पन्दनमित्याह - विभाग इत्यादि । ननु विभागाश्रयत्वं किमर्थम्, स्पन्दनादिक्रियानाश्रयत्वम् इत्यास्तां चेत् तर्हि वाय्वाकाशादेरप्यपादानत्वं स्यादित्याह-विभाग इति।
४. विभागजनकीभूतस्पन्दनादिक्रियानाश्रयत्वे सतीत्यादिलक्षणे नञर्थश्च त्रितयप्रतियोगिताकाभावरूपो ध्वंसप्रतियोग्यभावो वर्तमानकालवृत्तिप्रतियोगिताकामावरूपः प्रागभावरूपश्च स्पन्दनादिक्रियास्वरूपाभावादीनाम् अनाश्रयत्वेन 'वृक्षात् पर्णं पतितम्, वृक्षात् पर्णं पतति, वृक्षात् पर्णं पतिष्यति' इत्यादि सिद्धम् ।
५. ननु पर्णस्य कथमपादानसंज्ञा, यावता परत्वात् कर्तृसंज्ञा एवास्ति बाधिकेति ? सत्यम् । अतिव्याप्तिः स्यादिति चेत्, न । "तेषां परमुभयप्राप्ती" (२।४।१६) इत्यत्र 'त्यजति दण्डं दण्डी' इति कतैवेति प्रत्युदाहरणेनातिव्याप्तिदोषस्य स्वीकारात् । अन्यथा "तेषां परमुभयप्राप्ती" (२।४।१६) इति व्यर्थमेव, सत्यम् । अत्र पक्षे अपपूर्व इण्धातोरर्थः संबन्धध्वंसमात्र सम्बन्धध्वंसरूपक्रियाश्रयत्वे यथा पर्णस्य कर्तृत्वसङ्गतिस्तथा वृक्षस्यापि कर्तृसंज्ञा स्यादित्यपादानस्य निर्विषयत्वेन उभयोरेवापादानत्वं स्यादिति । यदि संबन्धध्वंसोपलक्षितव्यापार एव धात्वर्थः कल्प्यते, तदा 'वृक्षात् पर्णं विभजते' इत्यत्र विभागमात्रधात्वर्थतया वृक्षस्य कर्तृसंज्ञा पर्णस्यापादानसंज्ञा स्यादिति भावः । ननु 'त्यजति दण्डं दण्डी' इत्यादौ विभागजनकीभूतक्रियाश्रयत्वे सति दण्डिनः कथमपादानविषये परत्वमुक्तम् ? सत्यम् स्पन्दनानुकूलव्यापारानुकूलव्यापार एव धात्वर्थः, ततश्च स्पन्दनजना एव विभागस्तस्याश्रयो दण्ड एव न दण्डीति । अत एव विभागजनिका या क्रिया, तस्या अनाश्रयत्वे केवलं विभागाश्रयत्वे सति दण्डिन इति लक्षणतात्पर्यम् । अतो 'धावतोऽश्वात् पतितः' इत्याद्यपि सिद्धम् ।