________________
३३
नामचतुष्टयाध्याये चतुर्थः कारकपादः [क० च०]
यतः । 'नन्वपायो विश्लेषो विभाग इति यावत् । स च पर्णनिष्ठो वृक्षनिष्ठश्च । ततो यथा वृक्षस्यापादानसंज्ञा तथा पर्णस्यापि कथन्न स्यादिति चेत्, न । अभिप्रायापरिज्ञानात् । यस्माद् यत इत्यवधौ पञ्चमीति । अवधित्वं पुनर्विभागजनकीभूत स्पन्दनादि
१.अपपूर्वो गत्यर्थधातुः स्वभावादकर्मकः । यस्मादपैति, यस्मादपगच्छति, यस्माद् विश्लिष्यतीति क्रियासंबन्धमात्रे यदा वस्तुनो विश्लिष्टिरवसीयते तदा संज्ञेति । ग्रामान्नीयते, वृक्षात् पर्णं पात्यते इति स्यादेवेति टीकाकारः । विश्लेषो विभागः संयोगध्वंस इति यावत् । यतो दुर्गेण टीकायामुक्तम् - संबन्धे विवक्षिते वृक्षस्य पर्णं पतति,न काकादिभिरानीतं पतति पर्णमिति। एतेन यदा वृक्षान्तरात् काकादिभिरानीतं तदा वृक्षात् पर्णं पततीति टीकाकारस्य हृदयमिति ।
२. अत्र न आश्रयोऽनाश्रयः, पश्चात् षष्ठीतत्पुरुषः इत्यसङ्गतमिति । आश्रयत्वावच्छिन्नप्रतियोगिताकभेदस्य न कुत्रापि सत्त्वम्, सर्वस्यैवाश्रयत्वात् । तस्मात् स्पन्दनादिक्रियाया न आश्रयः । स्पन्दनादिक्रियानाश्रय इति मध्यपदप्रधानत्रिपदतत्पुरुषः एव श्रेयान् । तथा च शब्दशक्तिप्रकाशिकायाम् -
पूर्वमध्यान्तसर्वान्यपदप्राधान्यतः पुनः। प्राच्यः पञ्चविधः प्रोक्तः समासो वाभटादिभिः॥इति ।
न च 'बहुपदे बहुव्रीहिरेव, नेतरो द्वन्द्वाद्यः' इति नियमाद् बहुपदे तत्पुरुष इति वाच्यम्, तत्र बहुपदस्य नाम - रूप-बहुपदप्रतिपादकत्वात् । एतन्मते नजो नामत्वं नास्तीति सामञ्जस्यम् । पर्णस्यापादानत्वनिरासार्थं सत्यन्तम् । 'वृक्षात् पर्णं पतति' इत्यादौ सामान्यस्यापादानत्वनिरासार्थं विभागाश्रयत्वमिति । 'चलतो वृक्षात् पर्णं पतति' इत्यादावव्याप्तिवारणाय विभागजनकीभूतेति च्चिप्रत्ययेन साक्षाज्जनकता बोध्यते, अन्यथा वृक्षीयस्थित्यादेरपि परस्परापायजनकत्वाद् वृक्षस्यापि संज्ञा न स्यात् । ननु यदि क्रियात्वपुरस्कारेण विभागजनकीभूतस्पन्दनादिक्रिया गृह्यते, तदा चलतो वृक्षात् पततीत्या वृक्षे ऽप्यस्ति तत्कथं तस्यापादानसंज्ञा ? यद् विभागाश्रयत्वे नावधित्वं तद्विभागजनकीभूतस्पन्दनादिक्रियानाश्रयत्वे सति इत्युक्तम्, तदा 'त्यजति दण्डं दण्डी' इत्यत्र विभागजनकीभूतहस्तपरिस्पन्दनरूपक्रियाश्रयत्वादेव दण्डिनोऽपादानत्वं न भवति, परत्वात् कर्तव इत्युक्तं वृत्तिकृता? सत्यम्, 'त्यजति दण्डं दण्डी' इति कतैवेत्यत्र त्यजधातोः संबन्धध्वंसानुकूलव्यापारानुकूलव्यापार एवार्थः।।
ततश्च विभागजनकीभूतक्रिया दण्डचलनमेव तस्य दण्डनिष्ठत्वे विभागजनकीभूतक्रियानाश्रयत्वे दण्डिनोऽपादानसंज्ञाप्राप्तिरिति भावः। अथ लक्षणे स्पन्दनादिक्रियाशून्यत्वे सति इत्येवास्तां किमनाश्रयत्वनिवेशेनेति, नैवम् । क्रियाशून्यत्वं क्रियात्यन्ताभावत्वम् । ततो 'वृक्षात् पर्णमपतत्' इति दशायां 'स्वस्मादपतत्' इति स्यात् । अत्यन्ताभावस्याव्याप्यवृत्तित्वेन पर्णेऽपि वर्तमानकालावच्छेदेन स्पन्दनादिक्रियाभावाद् अनाश्रयत्वनिवेशे तु अधुनापि पर्णं न स्पन्दनाश्रयभिन्नम् अन्योऽन्याभावस्याव्याप्यवृत्तित्वाभावादिति ।