________________
३२
कातन्त्रव्याकरणम्
अन्तर्द्धिनिमित्तं न भवति, अपि तूपघातनिवृत्तये । अत्रापि कर्मसंज्ञयैवाघ्रातत्वात् कथमपादानप्राप्तिः। तथाहि – 'अमून् पश्यन्तं मां यदि कदाचिदमी पश्येयुस्तदा नूनमुपहन्युः' इति मत्वा तप्रदेशपरिजिहीर्षया यदा तान्न द्रष्टुमिच्छति तदा कर्मत्वमेव स्फुटमवगम्यते इति । शृङ्गाच्छरो जायते' इति । “जनिकर्तुः प्रकृतिः" (अ० १।४।३०) इत्यपि न वक्तव्यम् । यतो जन्यर्थस्य कर्ता यः शरादिस्तस्य प्रकृतिः करणमवधिरेव जायते, प्रादुर्भवति । विशेषेणोपपद्यते, कुतः शृङ्गादित्यर्थः । हिमवतो गङ्गा प्रभवति' इति। "भुवः प्रभवः" (अ० १।४।३१) इति न वक्तव्यम् । प्रभवत्यस्मादिति प्रभवः इत्यपादानेऽल् । भुवः कर्तुर्गङ्गादेः प्रभवो योऽर्थो हिमवदादिस्तस्यावधित्वात् । तथाहि 'हिमवतो गङ्गा प्रभवति' । ततः प्रथमत उपलभ्यते इत्यर्थः । तेन गङ्गोपलम्भनस्य प्रथमतस्ततो भावाद् अवधित्वं विवक्षितमिति भावः । अत एव "भीत्रार्थानां भयहेतुः" (अ० १।४।२५) इत्यादयो योगाः पूर्वस्यैव प्रपञ्चार्था इति जिनेन्द्रबुद्धिनापि निश्चिताः । सर्वत्रापायस्य विद्यमानत्वात् । 'प्रासादात् प्रेक्षते, आसनात् प्रेक्षते' इत्यत्र प्रासादमारुह्य प्रेक्षते, आसने उपविश्य प्रेक्षते इति गम्यमानत्वाद् अप्रयुज्यमानस्यापि यबन्तशब्दस्य सम्बन्धे कर्मणि द्वितीया, अधिकरणे सप्तमी च प्राप्नोति । अत इह पञ्चमीविधानार्थम् अपादानसंज्ञा वक्तव्या । यथोक्तं ल्यब्लोपे पञ्चम्युपसंख्यानमिति, तदयुक्तम् । 'प्राप्यकारीणीन्द्रियाणि' इति येषां दर्शनम्, तन्मते इन्द्रियं निर्गत्य विषयं परिच्छिनत्तीति स्फुटमवधिरस्त्येव । तर्हि निरिन्द्रियमधिष्ठानं प्राप्नोतीत्यपि पर्यनुयोगो नास्माकम्, तैरेव परिहतत्वात् । केवलं सर्वपारिषदत्वाद् व्याकरणस्येदमुच्यते ।
ये पुनरप्राप्यकारित्वमिन्द्रियाणां प्रतिपन्नास्तन्मतेऽपि प्रेक्षणक्रियायास्ततोभावात् प्रासादोऽवधितया विवक्षितः, न संज्ञा वक्तव्या । यथोक्तम् – 'विवक्षातो हि कारकाणि भवन्ति' इति । कुतो भवान्, पाटलिपुत्रादिति । कारकं हि क्रियानिमित्तम् । न च काचिदिह क्रिया श्रूयते, ततोऽपादानं न प्राप्नोतीति पृच्छ्यमानाख्यायमानयोरप्यपादानसंज्ञा वक्तव्येति, तदयुक्तम् । गम्यमानक्रियापदद्वयस्य कारकनिमित्तत्वात् । तथाहि 'कुतो भवान्' इत्युक्ते आगच्छतीति गम्यते । तथा पाटलिपुत्रादागच्छामीति | न हि क्रियारहितं वाक्यमस्ति, तस्य तप्रधानत्वादिति ।।२९३ ।