________________
३
कातन्त्रव्याकरणम् अन्ये तु यतोग्रहणं किमर्थम्, तदपादानमित्युक्ते अर्थाद् यत इति लभ्यते, यत्तदोर्नित्यसम्बन्धात् । पञ्चम्यन्ततापि लभ्यते एवान्यत्र कारकान्तरस्य बाधकत्वात् । न च 'वृक्षस्य पर्णं पतति' इत्यत्र संबन्धस्यापादानत्वप्रसङ्ग इति वाच्यम, कारकप्रस्तावात् कारकस्यैवापादानसंज्ञा स्यात्, अवधौ तस्य शब्दस्य रूढित्वाद् वा नान्यत्र विधिर्भविष्यतीत्याह – यत इत्यादि । तेन न्यायपरिप्राप्तेन यतो ग्रहणेन साक्षान्निर्दिष्टयतोग्रहणेन वावधिद्वयस्य लाभाद् यत्रावधिमात्रं तत्रैव विधिरिति । मात्रशब्दोऽत्र कार्ये । अतः प्रतीयमानोऽपि यत्रापायस्तत्रैवायं विधिरिति। ततश्चलमचलं चेति परैर्यन्निगदितं तद् अस्माकं मते हेयमिति। तदेवोक्तं तेनेति। 'नटस्य गीतं शृणोति' इति । ननु कथमिदं प्रत्युदाहृतम्, व्यङ्गविकलत्वात् । तथाहि, यथा नियमपूर्वकं विद्याग्रहणं नास्ति तथा कारकत्वमपि नास्ति, संबन्धः कारकाद् भिन्न एवेति वक्ष्यमाणत्वात् ? सत्यम् । हेतोरित्यध्याहारात् षष्ठ्याः करणस्य बाधकत्वात् कारकत्वं न विहन्यते । ___ अन्तौ येनादर्शनमिच्छति" (अ०१।४।२८) इति अन्तर्द्धिनिमित्तं यत्कर्तृकम् आत्मनः कर्मणो दर्शनाभावमिच्छति तदपादानमित्यर्थः । ननु येनेति कथं कर्तरि तृतीया "कर्तृकर्मणोः कृति नित्यम्" (अ०२।३ । ६५) इत्यनेन षष्ठीप्रसङ्गात्, सत्यम् । आत्मन इति षष्ठ्यन्तस्य कर्मणोऽध्याहाराद् एकस्य तूभयप्राप्तौ इति न्यायात् कर्तरि तृतीयैवेति न दोषः । 'चौरान्न दिदृक्षते' इति । यदप्यत्रान्तर्द्धिरस्ति तथापि तत्र निमित्तत्वं न विवक्षितम् । ननु कथमिदं प्रत्युदाहृतम्, ट्यङ्गविकलत्वाद् यथाऽन्तर्द्धिनिमित्तत्वेन विवक्षा नस्ति । तथा चौरकर्तृकादर्शनेच्छापि नास्ति, स्वकर्तृकदिदृक्षाया एव विद्यमानत्वाद् इत्याशक्य कर्मतास्फुटीकरणव्याजेनैव चौरकर्तृकादर्शनं दर्शयन्नाह - तथा हीति । “भुवः प्रभवः" (अ० १।४।३१) इति परसूत्रम् । भवनं भूः प्रकाश इति यावत् । जनिकर्तुरित्यतः कर्तुरित्यनुवर्तते । भुवः प्रकाशस्य कर्तुर्यः प्रभव इति प्रथमोत्पत्तिस्थानम्, तदपादानमित्यर्थः ।।२९३।
८. 'नटस्य हेतोः शृणोति' इत्यत्र “षष्ठी हेतुप्रयोगे" (अ० २।३।२६) इत्यनेन या षष्ठी सा पुनर्हेत्वर्थ इत्यनेन विहितायास्तृतीयाया बाधिकेति करणे तृतीयाबाधिका षष्ठी, अतः कारकत्वं न विहन्यते । ननु ‘हेत्वर्थे' इत्यनेन या तृतीया सा कथं करणे येन तद्बाधिका षष्ठ्यपि कारकविभक्तिरित्युच्यते ? सत्यम् । षष्ठी हेतुप्रयोगे' इत्यत्र हेत्वर्थे तृतीयाप्राप्ते वचनम् इत्युपलक्षणम्, किन्तु सामान्यबाधिका एव षष्ठी । अथवा हेत्वर्थे इत्यत्र योग्यतामात्रविवक्षया करणे न सिध्यतीति वचनम् इत्युक्तेऽपि यत्र साधकतम्यविवक्षासत्त्वे हेतुशब्दप्रयोगस्तत्रापि करणे तृतीयां बाधित्वा हेत्वर्थ इत्यनेनैव तृतीया इति करणबाधिका हेत्वर्थे तृतीया तद्बाधिका षष्ठी कारकविभक्तेरेवेति न दोषः ।