________________
नामचतुष्टयायाये पनमः समासपादः
३९५ इत्यादिषु, स्यात् । अथ 'निरनुबन्धग्रहणे न सानुबन्धकस्य' (का० परि० ४५) इति नङ्प्रत्ययस्य न भवति । यद्येवं ‘पामनपुत्रः, गोमनपुत्रः' इत्यादिषु स्यात् । पामादिभ्योऽस्त्यर्थे नप्रत्ययस्तद्धितो दृश्यते । तदयुक्तम्-न खलु शर्ववर्मकृतसूत्रमेतदर्थे वर्तते । किन्त्वेवमर्थे पामनादिशब्द एव वर्तते इति कुतः प्रसङ्गः । अथवा पद इति वर्तते, ततश्च पदे परतः इत्युक्ते तत्साहचर्यात् नस्य पदस्यैवेति कथं पदावयवस्य भवतीति ? सत्यम् । एवं तर्हि प्रतिपत्तिगौरवनिरासार्थमेव नस्य संबन्धिनीत्युक्तम् । लुप्यत इति लोप्य: पवर्गान्तत्वात् कर्मणि यप्रत्ययः । न चान्य इह कर्मभूतः प्रथमान्तोऽस्तीति । श्रुतत्वात् तस्यैवावयवो लोप्यः, स च नकार एवासवर्ण इत्यादिनिर्देशात् । न पुनरकार इत्याह - नस्य सम्बन्धी नकार इति । नस्येति नञ इति यावत् । द्विनकारो वा पाठ इति द्वौ नकारौ यस्मिन्निति विग्रहः । अत्र पक्षे देश्यमेव नास्तीति लोपनीयस्य नकारस्य प्रथमान्तस्य प्रथमत एव निर्दिष्टत्वादिति भावः ।।३५९।
[क० ०]
नस्य० । नस्य संबन्धी नकार इति । एतेनाकारविनिर्मुक्तस्य व्यञ्जननकारमात्रस्य लोप इत्यायातम्, असवर्ण इति ज्ञापकादित्यर्थः । 'ज्ञापकानि सविकल्पानि भवन्ति' इति न्यायादकारवतोऽपि क्वचिल्लोपः कथन्न स्यात् सूत्रेऽकारयुक्तस्य श्रवणा-दित्याहद्विनकारो वेति । अथ न विद्यते घोषो ध्वनिर्येषामिति वाक्ये बहुव्रीहौ कथं स्याद् इत्याहत-त्पुरुष इहोपलक्षणमिति । अघोषा इत्यादिज्ञापकात् समासमात्रे स्यादिति शेषः । तत्पुरुषग्रहणन्तूत्तरार्थमेव | आक्षेपेत्यादौ नस्य लोपो वक्तव्यः । अपचसि त्वं जाल्म, अकरोषि त्वं जाल्मेति, तन्न वक्तव्यम् अमानोना प्रतिषेधवचना इति अकारप्रतिषेधे चाव्ययः । नञोऽप्याक्षेपेत्यादौ प्रयोगा नाभिधीयन्त इति टीका । मतान्तरमाहअथवेति पनी ।। ३५९।
[समीक्षा]
'असवर्णः, अघोषः, अब्राह्मणः' आदि शब्दों के सिद्ध्यर्थ नघटित नकार का लोप दोनों व्याकरणों में किया गया है | पाणिनि का सूत्र है - "नलोपो नत्रः" (अ० ६/३/७३)।