________________
कातन्त्रव्याकरणम्
[दु० वृ०]
नस्य संबन्धिनि तत्पुरुषे नस्य संबन्धी नकारो लोप्यो भवति । द्विनकारो वा पाठः । न सवर्णः असवर्णः । न विद्यते घोषो ध्वनिर्येषां ते अघोषाः। ब्राह्मणस्याभावःअब्राह्मणम् । तत्पुरुष इहोपलक्षणम् ।। ३५९ ।
[दु० टी०]
नस्य० । तत्र यदि तत्पुरुषे यो नकारस्तस्य लोप इत्युच्यते । मदनस्य पुत्रो मदनपुत्रः इत्यत्रापि प्रसज्येत । अथ 'अर्थवद्ग्रहणे नानर्थकस्य' (का० परि० ४) इति । एवमपि 'प्रश्नपुत्रो विश्नपुत्रः' इत्यत्रापि स्यात् । निरनुबन्धग्रहणे न सानुबन्धकस्य' (का० परि० ४५) इत्यभ्युपगम्यते । तदा ‘पामनपुत्रो वामनपुत्रः' इत्यत्रापि प्रसङ्गः । पामा विद्यतेऽस्य, वामा विद्यतेऽस्य । पामादेरस्त्यर्थे न प्रत्ययो दृश्यते । अथैवम् अर्थे शब्द एव प्रवर्तते, अस्य तद्धितस्याभिधानादिति मतम् । किञ्च पद इति सप्तम्यन्तमपि विशेषणविशेष्ययोरिष्टत्वातन्नस्य पदस्येति भविष्यति । पदे परत इत्युक्तेऽपि साहचर्यात् पदमेव गम्यते वा ? सत्यम् । प्रतिपत्तिगौरवं स्यादित्याह - नस्येत्यादि । यो नत्रा आरभ्यते स नस्य तत्पुरुषः । लुप्यत इति लोपः प्रथमान्तं पदमिह नास्तीति श्रुतत्वान्नस्यैवा-वयवो लोप्य इति गम्यते । तत्र चासवर्णे अघोषा इत्यादिनिर्देशात् नकार एव प्रतिपत्तव्यो न त्वकारः । द्विनकारो वा पाठ इति । द्वौ नकारौ यस्मिन्निति विग्रहः । तदा चोद्यमेव नास्ति । ___ न च वक्तव्यम् – ज्ञापकादेव नलोपः सिध्यतीति ‘सविकल्पान्यपि ज्ञापकानि भवन्ति' । असवर्ण इत्यादिना समासत्रयेणापि दर्शयति, तुल्याधिकरणानुवर्तनेन सिध्यतीति । यद्येवं तत्पुरुषग्रहणेनापि किमित्याह - तत्पुरुष इहोपलक्षणम् इति । समासमात्रे भवतीत्यर्थः । तत्पुरुषग्रहणं तु उत्तरार्थमेव । अवक्षेपेत्यादौ नस्य लोपो वक्तव्यः । अपचसि त्वं जाल्म | त्वम् अकरोषि जाल्म । तन्न वक्तव्यम् ! अमानोनाः प्रतिषेधवचना इति अकारः प्रतिषेधवाच्यम् । नञोऽप्यवक्षेपेत्यादौ प्रयोगो नाभिधीयते ।।३५९।
[वि० प०]
नस्य० । नस्येति सम्बन्धे षष्ठीत्याह - नस्य संबन्धिनि तत्पुरुष इति । यो नत्रारभ्यते स नस्य संबन्धी तत्पुरुषो भवति । तेन ‘मदनपुत्रः' इत्यादिषु लोपो न भवति । अथ अनर्थकत्वादेवात्र न भविष्यति तत् किमेवमुच्यते इति चेत्, तर्हि 'प्रश्नपुत्रः'