________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
४०९
[दु० वृ०]
अनव्ययविसृष्टस्तु कपवर्गयोः परयोः सकारमापद्यते क्वचिल्लक्ष्यानुरोधात् । अयस्पाशम्, अयस्कल्पम्, अयस्काम्यति, अयस्कम् - पाशकल्पकाम्यकेषु दृश्यते । रप्रकृतेः काम्ये न भवति - गीः काम्यति, धूः काम्यति, अयस्कारः, अयस्कामः, अयस्कंसः, अयस्कुम्भः ।
कृञ्कामिकंसकुम्भेषु समासेऽयमतः परः । अनुत्तरे कुशाकर्ण्योर्भास्करादिषु लक्ष्यतः ॥
नञा निर्दिष्टमनित्यम् । नमस्कर्तुम्, पुरस्कर्तुम् इत्यादयः ।। ३६६ । ॥ इति दौर्गसिंह्मां वृत्तौ नामचतुष्टयाध्याये पञ्चमः समासपादः समाप्तः ॥
[दु० टी०]
1
अनव्यय० । कुत्सितम् अयः अयस्पाशम् तमादित्वान्निन्द्ये पाशप्रत्ययः । अयस्कल्पम् इति । किञ्चिदूने कल्पप्रत्ययः । अयस्काम्यतीति, अय इच्छतीति काम्यप्रत्ययः । अयस्कम् इति । अज्ञाताद्यर्थे कप्रत्ययः । अयस्कार इति “कर्मण्यणु" (४/३/१) । एवम् अयस्कामयते इति शः। कृञित्यादि । अयसा मिश्रः, अयस्कंसः । अयसः कुम्भः अयस्कुम्भः । लिङ्गविशिष्टेऽपि दृश्यते - अयस्कुम्भी । एवम् अयस्पात्रम्, अयस्पात्री । कुशेति स्त्रीलिङ्गम्-अयस्कुशा । अयस्कर्णी, अयस्कर्णिः । समास इति सर्वत्र संबध्यते । अयं विसृष्टोऽतः परः, अकारात् पर इत्यर्थः । अनुत्तरे अनुत्तरपदे इत्यर्थः सर्वत्र संबध्यते । इह न भवति- गीः कारः, भाकरणम् । कथन्तर्हति वितर्क्याह - भास्करादिषु लक्ष्यत इति । असमासे न भवति । यशः करोति, यशः कामयते । उत्तरपदे यो विसृष्टस्तस्य न स्यात् – परमायः कामः । न च दृश्यते - पयःकामः, अनव्ययस्येति किम् ? प्रातः कल्पः । प्रातः शब्दोऽयमधिकरणप्रधानोऽव्ययस्तद्युक्तस्योनार्थता । उच्चैः काम्यति, स्वःकारः, स्वःकामः । अव्ययादन्यदनव्ययं लिङ्गमुच्यते, तस्य विसृष्ट इति विभक्तेर्न स्यात् । कः पचति, कः फलति । कथन्तर्हि कस्कः, विसृष्ट इति वीप्सायामत्र द्विर्वचनम् । भ्रातुष्पुत्रः, शुनस्कर्णः ? सत्यम् । क्वचिदधिकार एव श्रेयान् इति
I
पयः पाता ।