________________
४१०
कातन्वव्याकरणम्
तथाऽन्येऽपि दृश्यन्ते-अयस्काण्डः, अयस्कान्तः । नत्रा निर्दिष्टमनित्यमिति नमसः कृत्रि विभाषा प्रतिपत्तव्या-नमस्कृत्वा, नमः कृत्वा गत इति । तिरश्च कृत्रि विभाषा - तिरस्कृत्य, तिरःकृत्य गत इति । इह तु न भवत्येव - तिरः कृत्वा काष्ठं गतः । अधःशिरसोः पदे नित्यम् - अधस्पदम्, शिरस्पदम् । घोषवति तु घोषवत् कार्यमेव दृश्यते - अयोघातः । अयोभोजनमित्यादि । उदकस्योदः संज्ञायाम् इत्यादयो लोकोपचारादेव । उदकस्य मेघः उदमेघः । उदकं वहतीति उदवाहः । उदकं पीयतेऽस्मिन्निति उदपानम् । परपदे च दृश्यते - अच्छमुदकमस्मिन् अच्छोदः । क्षीरमुदकमस्मिन् क्षीरोदः । असंज्ञायामपि दृश्यते - वासपेषवाहनेषु । उदवासः, उदपेषं पिनष्टि, उदवाहनमिति । भाण्डसंबन्धिनो व्यञ्जने संयोगवर्जिते विभाषा | उदकुम्भः, उदककुम्भः । उदपात्रम्, उदकपात्रम् । संयोगवर्जित इति किम् ? उदकस्थानम् । भाण्डसंबन्धिन इत्येव-उदकफेनः । मन्थौदनबिन्दुसक्तुवज्रभारहारवीवधगाहसारेषु च विभाषा | उदमन्थः, उदकमन्थः । उदौदनः, उदकौदनः । उदबिन्दुः, उदकबिन्दुः । उदसक्तुः, उदकसक्तुः । उदवज्रम्, उदकवज्रम् | उदभारः, उदकभारः । उदहारः, उदकहारः। उदवीवधः, उदकवीवधः । उदगाहः, उदकगाहः |उदसारः, उदकसारः |बहुव्रीहिहेतोः सहस्य सो विभाषा - सपुत्रः, सहपुत्रः । बहुद्र हिहेतारित्येव । सहयुध्वा, सहकृत्वा । प्रियोऽस्येति प्रियसहयुध्वा प्रियसहकृत्वा । संज्ञायान्तु नित्यम् - साश्वत्थेन वर्तते साश्वत्थम्, सामलकम् । एवं सपलाशम् । अप्रत्यक्षपरिच्छेद्यवस्तुवृत्तेश्च - सहाग्निना वर्तते साग्निः कपोतः । एवं सपिशाचा वात्या | कपोतादिभावे क्वचिद् अग्न्यादिदर्शनात् । अन्यत्रापि कपोतादेरग्न्यादियोगमवगम्य प्रयोगः। अव्ययीभावस्याकाले । सम्पन्नं ब्रह्म सब्रह्म । ब्रह्मणां सम्पत्तावव्ययीभावः । काले तु न स्यात् । पूर्वाह्वेन सह सहपूर्वाह्नम् । एवं सहापरालम् । सचक्रं देहीति यौगपद्येऽव्ययीभावः । ग्रन्थाधिक्ययोरपि -ग्रन्थस्यान्ते आधिक्ये च वर्तमानस्य सहस्येत्यर्थः । कलान्तं सकलम्, मुहूर्तान्तं समुहूर्तम् । साकल्येऽव्ययीभावः । कला कालविशेषः, कलाप्रतिपादकोऽपि ग्रन्थस्तादर्थ्यात् कलार्थं वचनम् । ग्रन्थवृत्तिरपि कलादिः कालशब्द इति, अधिको द्रोणोऽस्यां सद्रोणा खारी । बहुब्राहित्वाद् विकल्पे प्राप्ते वचनम् । नाशिष्यगोवत्सतृणेषु - सहपुत्राय राज्ञे स्वस्ति । अगोवत्सतृणेष्वित्येव । स्वस्ति सगवे, स्वस्ति सवत्साय, स्वस्ति सतृणाय, विकल्पविधिः स्यात् । दिक्शब्देभ्यस्तीरस्य तारो वा ।