________________
नामचतुष्टयाध्याये पचमः समासपादः
४११ दक्षिणे स्थितं तीरं दक्षिणतीरं दक्षिणतारम् । एवम् उत्तरतारम्, उत्तरतीरम् । एवम्भूता एव समासशब्दाः स्थिताः । तथा च-वर्णागम इत्यादि पञ्चविधं निरुक्तम् इति । अपूर्वस्य वर्णस्य प्राप्तिर्वर्णागमः। यथा को जीर्यतीति कुञ्जरः । वर्णविपर्ययः- हिनस्तीति सिंहः । वर्णविकारः- षड्भिरधिका दश षोडश |वर्णनाशः-पृषदुदरं पृषोदरम् ।धातोस्तदर्थातिशयेन योगः- मह्यां रौतीति मयूरः । प्राणिविशिष्टे रवक्रियासंबन्धः । पदविकारोऽधिकोऽत्र दृश्यते । तस्माल्लोकोपचाराद् यः सिद्धस्तव किं यत्नेन ॥३६६।
॥इति दुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां नामचतुष्टयाण्याये पचमः समासपादः समाप्तः॥
[वि०प०]
अनव्यय० । अयस्पाशम् इत्यादि । कुत्सितमयः अयस्पाशम् । कुत्सितवृत्तेम्निः एव पाशः । ईषदूनमयःअयस्कल्पम् ।ईषदसमाप्तावित्यादिना कल्पप्रत्ययः ।अय इच्छति अयस्काम्यति । "काम्य च" (३/२/६) इति काम्यप्रत्ययः । अयस्कम् इति । कस्येदम् अयः, कुत्सितं वा अयः इत्यज्ञाताद्यर्थे कप्रत्ययः । अयस्कार इति । अयः करोतीति कर्मण्यण् । अयस्काम इति । अयः कामयते इति शीलिकामीत्यादिना णप्रत्ययः । एतद् दर्शयति कृञ्कामीत्यादिना | अयसा मिश्रः कंसः अयस्कंसः । अयसां कुम्भः । एवम् अयसां कुशा, अयसां कर्णि:- अयस्कुशा, अयस्कर्णिः । समास इति वचनादिह न भवति । अयःकरोतीति, अयः कामयते इति ।अयमतः पर इति । अयं विसृष्टोऽकारात् पर इत्यर्थः । इह न भवति - गी:कारः, धूःकारः, भा:कार इत्यादि । अनुत्तर इति वचनाद् उत्तरपदस्थस्य न भवति । परमायःकारः, परमायःकामः इत्यादि । क्वचिद् न दृश्यते - पय:कामः, पयःपातेति । कथन्तर्हि 'भास्करः' इत्याह - भास्करादिष्वित्यादि । भासं करोतीति "दिवाविभानिशा०"(४/३/२३) इत्यादिना टप्रत्ययः । अनव्ययविसष्ट इति किम् ? प्रातःकल्पः, प्रातःकाम इति ॥३६६। ॥इति त्रिलोचनदासकृतायां कातन्त्रवृत्तिपत्रिकायां नामचतुष्टयाप्याये पञ्चमः समासपादः समाप्तः॥
[क० च०]
अनव्यय० । अव्ययादन्यद् अनव्ययं लिङ्गम् उच्यते इति विभक्तेर्न स्यात् - कः पचति, कः फलतीति । तर्हि कथं भ्रातुष्पुत्रः, शुनस्कर्णः ? सत्यम्, क्वचिदधिकाराद् । तुशब्दश्छन्दोऽर्थः । कश्च पश्च कपौ, तयोर्व! तयोरित्यर्थः । अथ कखपफेष्विति