________________
२५५
नामचतुष्टया याये पञ्चमः समासपादः उपायमात्रं नानात्वं समूहस्त्वेक एव सः। भिन्नाः संबोधनोपायाः पुरुषेष्वनवस्थिताः॥
(वा० प० ३।१४।४९,९८)। भेदः संसर्ग इति नानात्वं यत् तत् प्रतिपत्त्युपायमानं समूहस्त्वेक एवासौ भेदसंसर्गरूपो नरसिंहादिवद् राजपुरुषादिरिति भावः । अत आह - ततोऽन्यद् वाक्यमिति रूढम् । साध्यं साधनं च येन प्रत्याय्यते तदेकं वाक्यं लोकप्रसिद्धमित्यर्थः । संज्ञयैव वा विधिरन्वाख्यात इत्यनेन वाक्यमेव समासीभवतीति मतं दर्शयति- समसनं समासः । केन पुनर्नाम्नां युक्तार्थ इति वक्ष्यमाणवाक्यानि हि संज्ञासाधनान्येव ? सत्यम् । अस्मादेव वचनान्नाम्नां युक्तार्थताऽनुमीयते । अन्यथा कथं संज्ञित्वेन निर्दिश्यते । अथवा नाम्नां समासः संक्षेपो भवति । युक्तार्थ इह संबन्धार्थो विशेषणविशेष्यभावलक्षण उच्यते । युक्तोऽर्थो येषां पदानां तानि युक्तार्थानि । युक्तार्थाश्रयत्वाद् युक्तार्थः समास उच्यते । तदा तु युक्तार्थग्रहणं सुखार्थमेव । यस्मात् सामान्योक्तावपि यस्य येन संबन्धस्तस्य तेन सह समासो भवतीत्यथदिवावसीयते । यथा मातरि प्रवर्तितव्यम्, पितरि शुश्रूषितव्यम् । न चोच्यते स्वस्यां स्वस्मिन्निाते । यस्य या माता, यस्य यः पितेति गम्यते । तथेहापीति।
पश्य कष्टं श्रितो गुरुकुलं देवदत्तः' इति नात्र समासः, सम्बन्धाभावात्। अत्र कष्टमिति साधनं पश्येति साध्यमपेक्षते । श्रित इति क्रिया गुरुकुलमपेक्षते, कष्टाश्रितयोर्वाक्यान्तरावयवयोर्नास्ति व्यपेक्षेति भावः। एवं किं करिष्यति 'शङ्कुलया खण्डः, देवदत्तः उपलेन, पुरुषो राज्ञः, कम्बलो देवत्तस्य' । पृथगानामेकार्थीभावः समासो भवति । पूर्वोत्तरपदयोरर्थस्य संसृष्टरूपस्य प्रतीतेः । वाक्ये संख्याविशेषो व्यक्ताभिधानमुपसर्जनविशेषणं च शब्दयोग इति । यथा ‘राज्ञः पुरुषः, राज्ञोः पुरुषः, राज्ञां पुरुषः' इति । वृत्तौ तु निर्विशेषावगमः, यथा 'राजपुरुषः' इति । विभक्त्यलोपे समासे सति स्वभावाद् विशेषणमात्रस्य प्रतीतिः । यथा 'गोषुचरः, वर्षासुजः, दास्याः पुत्रः' इति । अन्यः पुनराह - संख्यानामेकत्वादीनां संसर्गरूपमविभक्तं वृत्तौ तदभेदैकत्वमुच्यते ।
अभेदैकत्वसंख्या वा तत्रान्यैवोपजायते । संसर्गरूपसंख्यानामविभक्तं तदुच्यते ॥ यथौषधिरसाः सर्वे मधुन्याहितशक्तयः। अविभागेन वर्तन्ते संख्यां तां तादृशीं विदुः॥