________________
कातन्त्रव्याकरणम्
वाचिका योतिका वापि संख्यानां या विभक्तयः । निवर्तते ॥
तद्रूपेऽबयवे वृत्ती संख्याभेदो
( वा० प० ३ | १४|१०१, १०२, १०० ) इति । समासराशिवादिनः समासे पुनरव्यक्ताभिधानं यथा द्विजकुलम् इति सम्बन्धिपदस्यापि द्विजशब्दस्य संभवात् सन्देशः । वाक्येऽपि क्वचित् सन्देहो दृश्यते - पशोरर्द्ध देवदत्तस्येति पशुगुणयुक्तस्य देवदत्तस्य वार्द्धं पशुस्वामिनो देवदत्तस्य वार्द्धमिति वृत्तौ व्यक्तं पश्वर्धं देवदत्तस्येति । उपसर्जनविशेषणं वाक्ये दृश्यते 'समृद्धस्य राज्ञः पुरुषः ' वृत्तौ तु न भवति । समृद्धस्य राजपुरुष इत्यसंबन्धात् । संबन्धिशब्देषु तु दृश्यते । यथा देवदत्तस्य गुरुकुलम्, देवदत्तस्य दासभार्येति । यतो लोके सर्वः संबन्धिशब्दो नित्यं प्रतियोगिनमपेक्ष्य प्रयुज्यते । चशब्दयोगो भिन्नार्थनिबन्धनो वाक्ये प्रयुज्यते । यथा राज्ञो गौश्चाश्वश्च पुरुषश्चेति, समासे तु न प्रयुज्यते । अत एव पदान्तरेण समासो विशेषणविशेष्यभावश्च राजगोऽश्वपुरुषास्तथा शोभना इति चयोगनिवृत्तिः । पदान्तरेण संक्षेपः संख्याभावस्तथा विशेषणभावश्च विसंवादि फलं खलु वृत्तिशब्दानामिति ।
२५६
परार्थाभिधानं वृत्तिरिति । परस्यानात्मीयस्यार्थस्य यदुपसर्जनपदेनाभिधानं सा वृत्तिरित्यर्थः । तत्र परार्थाभिधाने कल्पनामात्रकृतानामुपसर्जनपदानां स्वार्थत्यागेन जहत्स्वार्थवृत्तिर्भवति प्रक्रियावादे । यथा तक्षा राजकर्मणि प्रवर्तमानः स्वं तक्षकर्म राजकर्मविरोधि जहाति न तु विशेषणम् । अथवा अन्वयाद् राजविशिष्टस्य ग्रहणम् । यथा चम्पकपुटो मल्लिकापुट इति निष्ट्यूतेष्वपि निस्तृतेष्वपि पुष्पेष्वन्वयाद् विशेषणं भवतीति । तेन राजविशिष्टस्यानयनं न तु पुरुषमात्रस्य । अजहत्स्वार्था वृत्तिरित्येंक । अजहदेव स्वमर्थमुपसर्जनं प्रधानमर्थमाहेति भावः । यथा भिक्षुकोऽपरां भिक्षामापाद्य पूर्वां न जहाति, संचयायैव यतते इति । न चोद्यम्, प्रधानार्थे खलु उपसर्जनार्थोऽन्तर्भूत इति षष्ठी नाम निवर्तताम् द्विवचनं तु स्यादेव राजपुरुष इति । तदुक्तम्- 'प्रधानोपसर्जने प्रधानार्थं सह ब्रूतः' इति । संघातस्यैक एवार्थो भेदसंसर्गरूप इति नावयवसंख्या स्याद् उत्पत्तौ निमित्तं भवति । यदुक्तम् -
अबुधान् प्रति वृत्तिं च वर्तयन्तः प्रकल्पिताम् । परार्थवचने त्यागाभ्युच्चयधर्मताम् ॥
आहुः
( वा० प० ३ | १४ | ९६ ) इति ।