________________
नामचतुष्टयाध्याये पनमः समासपादः
२५७ इदमपि प्रक्रियाजालम् । ‘राज्ञः पुरुषः' इति वाक्ये राजा स्वाम्यन्तराद् व्यवच्छिद्यते पुरुषश्च स्वान्तरादिति भेदः संसर्गो वाऽत्रानुगृहीतो न हि व्यावृत्तस्य सम्बन्ध्यन्तरेणासंबद्धस्य स्वाम्यादेरवस्थानमिति । यदा राजा ममायमित्यपेक्षते, पुरुषोऽप्यहमस्येति, तदा संसर्गव्यावृत्तिरनुगृहीता । न ह्यव्यावृत्त्यमानयोः संबन्ध्यन्तरेभ्यः संसर्ग इति। यदा तूभयमपि प्राधान्येनोच्यते, तदोभयभेदसंसर्गो वाक्यार्थ इति । इदं दर्शनमाश्रित्याहअभिधानात् क्वचिद् विकल्प इत्यादि । नाम्नामिति किमर्थं तद्धितानां युक्तार्थः समासो मा भूदिति कार्यिणा गाग्र्येणेत्यत्र । अन्यथा समासान्तसमीपयोर्वा नकारस्य णत्वं प्रसज्येत । अर्थग्रहणं सुखार्थमेव । नाम्नां युक्तः समासो भवन्नर्थद्वारक एवावसीयत इति।।३३८।
[वि० प०]
नाम्नाम् । वस्तुवाचीनीति । वस्तु वक्तुं शीलमेषामिति “नाम्न्यजातौ णिनिस्ताच्छील्ये" (४।३।७६) इति णिनिः । मिलितं युक्तमिति । तत्पुनर्विशेष्यस्य विशेषणेन संबन्धः । यदाह विमलमतिः
विशेष्यस्य विशेषेण मिलितं युक्तमुच्यते । समासाख्यं तदेव स्यात् तद्धितोत्पत्तिरेव च ॥
(द्र०, भा० वृ० सं०, पृ० ६, सू० १३)। युक्तश्चासावर्थश्चेति विग्रहः । नाम्नां युक्तार्थः समासंज्ञो भवति । यद्यपि कर्मधारयेऽर्थः प्रधानम्, तथापि तत्र कार्यासंभवात् तद्वाचकाः शब्दा एव समाससंज्ञाफलं प्राप्नुवन्ति, शब्दार्थयोर्वाच्यवाचकलक्षणसंबन्धस्य विद्यमानत्वादिति । अथवा बहुव्रीहिरयम् । युक्तोऽर्थो यस्मिन् समुदाये युक्तार्थो नाम्नां समुदायः समास इति । तस्माद् यत् पुनरन्यत् तद् वाक्यमित्याह - ततोऽन्यद् वाक्यमिति । एतत्तु मतभेदादनेकरूपं वाक्यम् । इह पुनः कतमद् इत्याह - रूढमिति | साध्यं साधनं च येन प्रत्याय्यते तदेकं वाक्यं लोके रूढं प्रसिद्धमित्यर्थः । एतेन समासात् स्वभावादेव वाक्यं भिन्नमिति नित्यसमासवादिनो मतं दर्शितम् । वाक्यमेव समासीभवतीति मतं दर्शयितुमाह - संज्ञयैव वा विधिरन्वाख्यातः इति । ननु केन पुनर्नाम्नां युक्तार्थता विधीयते वक्ष्यमाणान्यपि वचनानि संज्ञासाधनान्येव ? सत्यम् । अनया संज्ञया युक्तार्थता