________________
२५८
कातन्त्रव्याकरणम्
विधिरनुमीयते, कथम् अन्यथासौ संज्ञा स्यात् । न हि संज्ञिनमन्तरेण संज्ञासिद्धिरस्तीति व्यर्थमेवेदं संज्ञाविधानं स्यादिति । विधिपक्षमेवाश्रित्याह - स पुनरित्यादि । स पुनर्विधिरित्यर्थः । तथा चोक्तम् – 'अभिधानलक्षणा हि कृत्तद्धितसमासाः' इति ।।३३८।
[क० च०]
नाम्नाम् । नाम्नामिति समूहसम्बन्धे षष्ठी | नाम्नां यः समूहो युक्तार्थ एकार्थीभावापन्नः स समाससंज्ञो भवतीति निर्गलितार्थः । वचनमतन्त्रम् । “पदे तुल्याधिकरणे" (२।५।५) इत्यत्र द्वयोरपि नाम्नोः समासदर्शनात् । अथ किमिदं नाम, यस्य युक्तार्थः समास इत्युच्यत इत्याह - वस्तुवाचीनीति । वस्तु अभिधेयम् । नन्वेवं सति पचत्यादिपदस्यापि नामत्वं स्यात् । न च "आख्याताच्च तमादयः०" (२।६।४०) इत्यत्राख्यातग्रहणाद् आख्यातस्य न भवतीति वाच्यम् । एतावतापि वस्तुवाचीनीति लक्षणस्याख्यातेऽतिव्याप्तेर्दुर्निवारत्वात् । किञ्च तद्धितप्रत्ययानामपि अपत्यार्थवाचकत्वान्नामत्वं स्यात् । ततश्च कार्यिणा गाग्र्येणेत्यादौ इन-ण्यप्रत्यययोः प्रकृत्या सह समासे सति समासान्तसमीपयोर्वेत्यनेन नित्यणत्वं बाधित्वा विकल्पेन णत्वविधिः स्यादिति । अथ तद्धिताख्यातभिन्नत्वे सतीति विशेषणं देयं चेत् तथापि वस्तुवाचीनीति लक्षणं व्यर्थम् अव्यावर्तकत्वात् ।
अथ द्योतकानामुपसर्गाणां व्यावृत्त्यर्थं तदुपादानम् इति वक्तव्यम् । अत एव क्यविधौ नाम्नीति किम् अनुवाद्यं णिनिविधौ ‘उपभोक्ता' इति प्रत्युदाहरणं संगच्छते
चेत् तर्हि 'प्रणम्य' इत्यादौ प्रादीनां नामत्वाभावात् समासाभावे सति "क्त्वो यप्" (४।६।५५) न स्यात् । अत्र हेमकरः- वृत्तौ 'वस्तुवाचीनि' इति यदुक्तम्, तस्यायमाशयः- ननु वर्णमयानि घटपटादीनि नामानि, तानि कीदृशानि येन युक्तार्थः समास इत्याशक्य एवाह-वस्तुवाचीनीति । न तु नामलक्षणं वृत्तिकृता कृतमिति । वस्त्वभिधेयमात्रं वक्तुं प्रतिपादयितुं शीलं स्वभावो येषां नाम्नामिति । अत. उपसर्गा अपि द्योतकत्वादर्थं प्रतिपादयन्त्येव । तथा च सना द्योतितत्वादिषेरप्रयोग इति वक्ष्यति । तेनोपसर्गाणां नामत्वात् — प्रणम्य' इत्यादौ समासः सिध्यति । अत एव वाचकत्वाभावाद् उपसर्गाणां नामत्वं नास्तीति यबविधौ समासं प्रति वक्तव्यान्तरं वक्ष्यामि इति कस्यचिन्मतमपास्तमिति ।न चाख्यातस्य नामत्वं स्यादिति वाच्यम्, यस्मात् स्यादयस्तन्नामेति नामलक्षणस्य रूढत्वात् ।