________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
"
"
यद्येवं क्यब्विधौ अनुवाद्यं णिनिविधौ चोपभोक्तेति प्रत्युदाहरणं कथं संगच्छते । एतल्लक्षणव्याप्यत्वेनोपसर्गाणामपि नामत्वात् । नैवम्, कृत्प्रत्ययविधानम् प्रति उपसर्गाणां नामत्वाभावः “ उपसर्गे त्वातो डः” (४।२।५२) इति वचनात् । अन्यथा " नाम्नि स्थश्च " (४ | ३ |५) इति कप्रत्ययेनैव 'सुग्लः, सुम्ल:' इत्यादि सिध्यति । न च 'प्रजाः, प्रह्वः' इति कप्रत्यये संप्रसारणे सति इयुवादेशस्य विषयत्वान्न सिध्यतीति वाच्यम् । “ अन्यतोऽपि च” (४ | ३ | ४९) इति इप्रत्ययेनैव सिद्धत्वात् । यथा 'ब्रह्मज्यः, मित्रह्नः ' इति " आतोऽनुपसर्गात् ” (४ | ३ | ४) को न भवति । न च वक्तव्यम् " आतोऽनुपसर्गात् कः ” (४ । ३ । ४) इत्यनुपसर्गग्रहणस्य व्यावृत्त्या 'सुग्लः, सुम्लः' इत्यत्र कप्राप्तिर्नास्ति “कर्मण्यण्” (४ । ३ । ९) इत्यतः कर्माधिकारात् कर्मोपपद एव सोपसर्गव्यावृत्तिः । यथा 'गोसन्दायः' इति । ननु " उपसर्गे त्वातो डः " (४/२/५२ ) इति अक्रियमाणे 'आतोऽनुपसर्गात् कः " ( ४ | ३ | ४) इत्यतो “नाम्नि स्थश्च " ( ४ | ३ |५) इत्यत्रानुपसर्गाधिकारे तद्व्यावृत्तिबलात् 'सुग्लः, सुम्ल:' इत्यत्र प्राप्तिरेव नास्ति । कथमुच्यते " नाम्नि स्थश्च " ( ४ | ३ |५ ) इति कप्रत्ययेनैव सिध्यतीति ? सत्यम् । तत्रानुपसर्गाधिकारो न वर्तते इति वृत्तिकृतैवोक्तम्, पृथग्योगाद् यद्यनुवृत्तिः स्यात् तदा " आतस्थोः" इत्येकयोगमेव कुर्यात्, कथमयं पूर्वपक्षावसरः । अत एव नामलिङ्गानुशासनमिति सुतरां संगच्छत इत्याह - तन्नेति श्रीपतिः । तथाहि यदि स्यादिप्रकृतेरेव नामत्वम्, तदा नामलिङ्गयोः पर्यायत्वेन नामशब्देनैव सर्वत्र व्यवहारसिद्धौ लिङ्गसंज्ञा वृथा स्यात् । तथा च “स्याद्यन्तमिह नामेष्टं लिङ्गसंज्ञाऽन्यथा वृथा" इत्याचष्टे । तत् तुच्छम्, पूर्वाचार्यप्रसिद्धसंज्ञाया अवश्यान्वाख्यातत्वाद् अत्रोष्मसंज्ञावत् पञ्चमसंज्ञयैव व्यवहारोपपत्ती अनुनासिकसंज्ञावच्च ।
44
२५९
वस्तुतस्तु इदमेव दूषणं लिङ्गनाम्नोः पर्यायत्वे स्याद्यन्तस्य नामत्वाभावात् " नाम्नां परपदेन तु” (२।५।८) इत्यादौ " तत् प्राङ् नाम चेत्” (४|२|३) इत्यत्र च पदस्य नामत्वव्यवहारानुपपत्तेः । न च नाम्नः पदावयवत्वान्नाम्नोऽपि पदत्वमुच्यते लक्षणयेति वाच्यम्, मानाभावात् । सुप्सुपा समासः " सुपो वदः क्यप् च” (अ० ३।१।१०६), “सुप्यजातौ णिनिस्ताच्छील्ये" (अ० ३।२।७८) इति नाम्नः स्याद्यन्तपदेन व्यवहारस्य दृष्टत्वाच्च । अत्र केचिद् वस्तुशब्देनार्थमात्रम् उच्यते युक्तार्थपदेन नाम्नोऽर्थवाचकत्वे लब्धे वस्तुवाचीनीत्यर्थकथनस्य वैयर्थ्यात् । किन्तु स्याद्यन्तस्यापि