________________
२६०
कातन्त्रव्याकरणम्
प्रकृतिभिन्नानुपस्थाप्योऽर्थो वस्तुशब्देनाभिधीयते । तेन स्याद्यन्तस्यादिप्रकृतिवाच्यार्थवाचीनीति नामानीत्यर्थः। एतन्मते स्यादिप्रकृतिस्याद्यन्तयोर्नामत्वं तेन स्याद्यन्तस्यादिप्रकृत्योरन्यतरोपस्थाप्यार्थप्रतिपादकत्वं नामत्वमिति पर्यवसितम् ।
नन्वेवमुपसर्गाणां स्याद्यन्तानां केवलानां वाऽर्थस्याभावान्नामत्वं न स्यादिति चेत्, नैवम् | उपसर्गा अपि द्योतकत्वादर्थं प्रतिपादयन्त्येव । अतस्तेषां नामत्वात् 'प्रणम्य' इत्यादौ समासः। तदेवं लिङ्गानां स्याद्यन्तानां च नामत्वे सति "नाम्ना परपदेन" (२।५।८) इत्यादौ पदस्य नामत्वव्यवहारः । नामलिङ्गानुशासनमित्यादौ च लिङ्गमात्रस्य नामव्यवहारश्चोपपद्यते । ननु यद्युभयोरेव नामत्वं तदाऽत्र नामपदेन लिङ्गमात्रमेव कथन्न गृह्यते, नैवम् । कर्मधारयादिविधौ विशेषपदग्रहणोपादानात् स्याद्यन्तनाम्न एव ग्रहणम् । अथ ‘“द्वन्द्वः समुच्चयो नाम्नोर्बहूनां वापि यो भवेत” (२ | ५ | ११) इत्यत्र सामान्यनिर्देशात् स्यादिप्रकृतिमात्रयोरपि द्वन्द्वः स्यादेव । न च पूर्वपूर्वसूत्रेषु पदप्रस्तावेनात्रापि नाम्नां पदानामित्यर्थो भविष्यतीति वाच्यम् । सफलनिष्फले भूमी, नीललोहितौ पटौ, सजलनिर्जले नद्यौ, आढ्यदरिद्रे पल्यौ इत्यत्र स्यादिप्रकृतिमात्रयोरपि द्वन्द्वसमासदर्शनात् । अन्यथा अत्र स्याद्यन्तस्य समासे “स्त्रियामादा” (२ । ४ । ४९) इति कृते तुल्याधिकरणाभावात् पुंवद्भावाप्राप्तौ 'सफलानिष्फले भूमी, आढ्यादरिद्रे पल्यौ' इति स्यात् । न च सफलं च निष्फलं चेति सामान्यत्वान्नपुंसकस्याद्यन्तस्य द्वन्द्वे समासे पश्चात् स्त्रीत्वविवक्षायां समुदायाद् आप्रत्ययः स्यादिति वाच्यम् । 'सुधीजडे कलत्रे' इत्यत्र दीर्घश्रुत्यर्थं स्यादिप्रकृतिद्वयसमासस्यावश्यमङ्गीकर्तव्यत्वात् । यद्यत्र स्याद्यन्तस्य समासः स्यात् तदा सुधीशब्दस्य कलत्रविशेषणत्वान्नपुंसकलक्षणो ह्रस्वः स्याद् इत्याहुः । टीकायामपि नाम्नां पदानां चेत्यर्थ उक्तः । तन्न, पाणिन्यादौ सर्वत्र स्याद्यन्तेनैव द्वन्द्वसमासस्य दृष्टत्वात् !
न
यस्तु 'सुधीजडे कलत्रे' इति स्वकपोलकल्पितप्रयोगः स पुनरपंप्रयोग एव, ह्ययं प्रयोगः क्वापि तन्त्रे स्वीक्रियते । किञ्च 'सुधीजडे कलत्रे' इत्यत्र स्याद्युत्पत्तेः पूर्वं प्रकृतिद्वयस्य समासे सामान्यत्वान्नपुंसकत्वेन ह्रस्वप्राप्तौ को वारयितेति । न चाविभक्त्यन्तेन समासे स्त्रीत्वायोगात् ' आढ्यादरिद्रे पल्यौ' इत्यादीनां सिद्धिरिति वाच्यम् | स्याद्युत्पत्तेः प्रागपि स्त्रीत्वयोगस्य दुर्निवारत्वात् । ननु यदि स्याद्यन्तस्यैव नामत्वात् समासस्तदा माषं वप्तुं शीलमस्या इत्यर्थे णिनिप्रत्यये स्याद्युत्पत्तेः प्रागपि