________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
२६१ स्त्रीत्वयोगाद् ईप्रत्यये समासान्तसमीपयोर्वेत्यनेन विकल्पेन णत्वं न स्यात् । यथा माषवापिनीति ? सत्यम् । परोऽपि “गतिकारकोपपदानां कृद्भिः समासवचनं प्राक् सुबुत्पत्तेः" (व्या०प० वृ० ११८) इत्यत्र सुप्पदेन प्रातिपदिकाश्रयकार्यमात्रस्योपलक्षणव्याख्ययाऽत्र विकल्पेन णत्वं साधयति । एषोऽप्यभिधानाश्रयणस्यैव प्रकारोऽस्माभिरप्यादृतः । तथा च स्वमतेऽप्यभिधानाद् ईप्रत्ययात् प्राक् समाससिद्धौ विकल्पेन णत्वसिद्धिः । तस्मात् नामशब्दस्य स्याद्यन्तवाचकत्वेनैव सिद्धे उभयत्र शक्तिकल्पनं व्यर्थमेव मानाभावाद् गौरवाच्च । अत एव वस्तुवाचीनीत्यत्र वस्तुशब्दस्य स्याद्यन्तार्थवाचकत्वात् तदेव नामलक्षणम् उपपन्नमिति । यत्तु 'नामलिङ्गानुशासनम्' इत्यमरकोशः, तत्रापि नाम-शब्दस्य वाचकपरत्वेनैव संगतिः । यथा “एकादशेऽह्नि पिता नाम कुर्यात्" न ह्यत्र स्याद्यन्तं स्यादिप्रकृतिं वा पिता कुर्यादिति, किन्तु वाचं कुर्यादित्यर्थः।
न च "नाम्ना परपदेन" (२।५।८) इत्यत्र पदग्रहणं व्यर्थमिति वाच्यम्, पदग्रहणस्यानुष्टुप्छन्दः पूरणार्थत्वात् । अन्यथा भवन्मतेऽपि नामग्रहणवैयर्थ्यं दुर्निवारमेव, पदशब्देनोक्तार्थत्वात् । नामपदानामिति टीकावचने मेरुमहीभृदित्यादिवदन्वयः । ननु यदि स्याद्यन्तप्रकृत्युपस्थाप्योऽर्थो वस्तुशब्देनाभिधीयते, उपसर्गाणां तद्वाचकत्वाभावादनामत्वात् कथं समासः ? सत्यम् । अत्रापिशब्दबाहुल्याश्रयणात् समासः । तथा च श्रीपतिः
प्रादेरनर्थकस्यापि कृदन्तैरपदैः सह।
अपेर्बहुलवाचित्वात् समासो न विरुष्यते ॥ अत एव वृत्तिकारोऽपि एतामेव युक्तिमाश्रित्य यव्विधावनुकरणं च कृतेति समासार्थं वक्ष्यति । अनुकरणं कृता कृदन्तेन सह समस्यते चकारात् प्रादय उपसर्गाश्चेत्यर्थः । ननु पाणिनिमते विभाषयेति सूत्राद् विभाषाधिकारात् पक्षे युक्तार्थता-विधानात् "सुप सुपैकार्थम्" इत्यनेन समासो विधीयते इति वाक्यस्यापि स्थितिर्भवतीति विकल्पः सिद्धः । अस्मन्मते युक्तार्थताविकल्पविधानाभावाद् नित्यं समासे सति वाक्यस्य स्थितिर्न स्याद् इत्याह - ततोऽन्यद् वाक्यमिति । अयमाशयः- राजपुरुषः इत्यादि युक्तार्थीभूतसमासराशेर्नित्यत्वात् 'राज्ञः पुरुषः' इत्यादि वाक्यं ततो भिन्नमेवेति । यद्यत्र समासोऽवयवविभागेन व्युत्पाद्यते तदैवास्य विकल्पेन युक्तार्थताप्रसङ्गः प्रतिपादयितुं शक्यते । तदनुचितमेवावयवार्थविरहेण समुदायाद् विशिष्टार्थप्रतीतेः। ततो यस्य