________________
२६२
कातन्त्रव्याकरणम्
स्वभावसिद्धा युक्तार्थता तस्य समाससंज्ञायां विधीयमानायां वाक्यस्य कः प्रसङ्गः । यदि समासराशेर्नित्यत्वं तर्हि तत्र समाससंज्ञाविधानं व्यर्थमिति । सुतरां च विभक्तिलोपविधानमिति । अस्मिन् पक्षे समासविधानं विभक्तिलोपविधानं चाबुधबोधनायैव पर्यवस्यतीति विस्तरेण टीकाकृता प्रतिपादितम् ।
ननु परेण समासविकल्पपक्षे वाक्यसंज्ञा विधीयते । अस्मन्मते वाक्यसंज्ञाविरहात् कथं वाक्यव्यवहार इत्याह - रूढमिति, ननु परेण विशेष्यविशेषणभावोपपन्नस्य वाक्यस्य युक्तार्थताविधानं प्रति सूत्रं विधीयते । तथाहि "समर्थः पदविधिः" (अ० २।१।१) इति सूत्रम् । अस्यार्थः- यो यः पदसंबन्धी विधिः समर्थः सन् साधुवेदितव्य इत्यर्थः । तथा च 'एकार्थत्वे समर्थोऽपि' इत्यमरः। यद्यपि समर्थशब्देन स्वकार्यक्षम उच्यते । सर्वेषां च शब्दानामर्थप्रतिपादनरूपस्वकार्यक्षमत्वम् अस्त्येव, तथापि यद् विशेषेणोपादानं तेनात्र कश्चिद् विशेष : आख्यायेत । वृत्त्यर्थं यद् वाक्यमुपादीयते, प्रत्यासत्त्या तदर्थप्रतिपादने यः शक्तः स इह समर्थ इति विशेषो गृह्यते । अतो ‘महत् कष्टं श्रितः' इत्यादौ सापेक्षत्वात् समर्थता नास्तीति । तदभावादस्मन्मते एकार्थताविधानं प्रति सूत्राभावात् ‘महत् कष्टं श्रितः' इत्यादौ समासः कथन्न स्यादित्याह – संज्ञयैव वा विधिरन्वाख्यात इति । वाशब्दः पूर्वोक्तनित्यपक्षमाश्रित्य समुच्चयार्थः । समासो नित्य एव यदि कार्य इत्युच्यते तदा संज्ञयैव युक्तार्थताविधिरनुमीयत इति ।
यद् वा वाशब्देन समसनं समासः संक्षेपः एकार्थीभावापन्न इति समासपदस्यान्वर्थबलाद् युक्तार्थता लभ्यते इत्युच्यते । मिलितं युक्तमिति पनी । मिलितं युक्तमिति भावे क्तः । विशेष्यस्येति कर्मणि षष्ठी, विशेषणेनेति कर्तरि तृतीया । उभयत्र प्राप्तौ कर्मण्येव षष्ठी, न कर्तरि षष्ठी | "ते वोभयोः" (कात० परि० का० ६२) इति षष्ठीविधानान्न निष्ठादित्वात् प्रतिषेधः । तद्वचनार्थोऽपि मिलितमुच्यते । तदेव मिलितं समासाख्यं स्यात् तद्धितोत्पत्तिहेतुत्वात् तदेव तद्धितोत्पत्तिरित्यर्थः ।। ३३८ ।
[समीक्षा]
सामान्य जन हो या विद्वान्, कभी वह किसी विषय को विस्तार से कहता है तो कभी संक्षेप में, क्योंकि यह सभी की प्रवृत्ति होती है | कृष्णद्वैपायन व्यास ने कहा है