________________
अथ द्वितीये नामचतुष्टयाध्याये पञ्चमः समासपादः
३३८. नाम्नां समासो युक्तार्थः [२।५।१] [सूत्रार्थ]
वस्तुवाची दो अथवा उनसे अधिक नामपदों के एकत्र मिल जाने = संक्षिप्त हो जाने की समास संज्ञा होती है ।। ३३८ ।
[दु० वृ०]
वस्तुवाचीनि नामानि, मिलितं युक्तमुच्यते । नाम्नां युक्तार्थः समाससंज्ञो भवति । ततोऽन्यद् वाक्यम् इति रूढम् । संज्ञयैव वा विधिरन्वाख्यातः, स पुनरभिधानात् क्वचिन्नित्यः, क्वचिद् विकल्पः, क्वचिन्न स्यात् । तथा च वक्ष्यति ।।३३८ ।
[दु० टी०]
नाम्नाम् । बहुवचनमतन्त्रम् । युक्तश्चासावर्थश्चेति विग्रहः । नामपदानां युक्तार्थः समासाख्यो भवति । शब्दार्थयोर्वाच्यवाचकलक्षणः संबन्धः । शब्द एव समाससंज्ञाफलं लभते । अथवा युक्तोऽर्थो यस्मिन् समुदाये स युक्तार्थो नाम्नामिति संबन्धः । तथा चाह
विशेष्यस्य विशेषेण मिलितं युक्तमुच्यते । समासाख्यं तदेव स्यात् तद्धितोत्पत्तिरेव च ॥
__(द्र०, भा० वृ० सं०, पृ० ६, सू० १३)। स पुनः स्वभावाद् वाक्याद् भिन्नः, तत् तुल्यरूपावयव इति कृत्वाऽबुधबोधनाय नाम्नां युक्तार्थ इत्युच्यते, अन्यथा व्यपदेष्टुमशक्यत्वात् । अत एव संख्याभेदाभावात् स्वभावतोऽनुपपन्नार्थेषु विभक्तयस्तत्र "तत्स्था लोप्या विभक्तयः" (२।५।२) इति व्याजेनोच्यते । तथा "प्रकृतिश्च स्वरान्तस्य, व्यजनान्तस्य यत् सुभोः" (२।५।३, ४) इति वचनम् । अन्यथा वर्णविमोहः स्यादिति । तथा "विभक्तयो द्वितीयाया नाम्ना परपदेन तु समस्यन्ते" (२१५।८) इत्यपि, अन्यथा कथं तत्पुरुषसंज्ञा प्रतीयते । एवमन्यदपि नीलोत्पलमित्यादि समासः । नीलमुत्पलम् इत्यादिवाक्यम्, भवतेर्गम्यमानत्वात् । अत एव वाशब्द इह न कृत इति । तथा च भर्तृहरिः
अबुधान् प्रत्युपायाश्च विचित्राः प्रतिपत्तये। शब्दान्तरत्वादत्यन्तं भेदो वाक्यसमासयोः॥