________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
२७७ स्वरान्तस्यापि टीकायाम् “अवमसंयोगात्" (२।२।५३) इत्यत्र दर्शनात् । किञ्च स्वरग्रहणस्थितावेवोत्तरत्र व्यञ्जनग्रहणम् अनर्थकीभूय नियमं साधयितुमर्हति । तथाहि अत्र स्वरग्रहणं नास्ति परत्र व्यञ्जनग्रहणे नियमव्याख्यानार्थं व्यञ्जनग्रहणे खण्डितेऽन्तस्य यत् सुभोरिति स्थिते सुभोः परयोरन्तभूतस्य सामर्थ्यलब्धव्यञ्जनस्य यत् कार्यं तदतिदिश्यते इत्यर्थे सति 'विद्वद्गमनम्' इत्यत्रानुषङ्गलोपस्वरूपं मध्यकार्यमतिदेष्टुं न शक्यते । तस्मादेतत्सिद्धये बहुव्रीह्यर्थमेव व्यञ्जनग्रहणं कथं नियमार्थं भविष्यति । न चान्तग्रहणमपि न कर्तव्यमिति वाच्यम् । 'दास्यर्थः' इत्यादावेतदतिदेशप्राप्तादिघुटसंयोगान्तलोपाभावार्थम् अन्तग्रहणम् औपदेशिकव्यञ्जनार्थं कर्तव्यमिति टीकायामुक्तत्वात् । तस्मात् स्वरान्तमात्रस्यैव प्रकृतिभाव इत्यर्थः।।
ननु यद्यनेन लाक्षणिकस्वरान्तस्यापि प्रकृतिभावस्तदा कथम् ‘अतियुवाभिः' इति सिध्यति । "एषां विभक्तौ" (२।३।६) इत्यादिनाऽन्तलोपे स्वरान्तत्वे सति "युवावो" (२।३।७) इत्यादिना युवादेशं प्रति प्रकृतिभावस्य दुर्निवारत्वात् । नैवम् । युवादेशं प्रति यदि प्रकृतिभावः स्यात् तदा एतत् सूत्रमकृत्वैव "तत्स्था लोप्या विभक्तयः" (२।५।२) इत्यत्र लुग्ग्रहणं क्रियताम् । तथा च सति 'लुग्लोपे न प्रत्ययकृतम्' (द्र०, कलाप०, पृ०२२, सं०६९) इति निषेधो भविष्यति । न चैवं सति एनेन कृतम् 'एनकृतम्' । अर्वतश्छाया 'अर्वच्छाया' । मघवतः पुत्रो मघवत्पुत्रः' इत्यत्र लुग्लोपत्वेन प्रत्ययलोपलक्षणन्यायस्याभावात् कथम् एनादयः आदेशाः स्युरिति वाच्यम् । तत्र तत्र सूत्रे विषयसप्तम्या अङ्गीकारात् । विषयसप्तमीपक्षे तु न निमित्ताभावः, विभक्तिलोपेऽपि तद्विषयस्य सत्त्वात् । तस्माल्लुग्ग्रहणम् अकृत्वा यदेतत् सूत्रं विदधाति तद् बोधयति - क्वचित् प्रत्ययलोपलक्षणमवतिष्ठते इति सिद्धम् । अतियुवाभिरित्यादिकमिति संक्षेपः।
ननु स्वरग्रहणं किमर्थं परत्र नियमव्याख्यानार्थमिति चेत् तत्र नियमो नाभिधीयते । न च नियमाभावे राजगतम् इत्यादिकं न सिध्यतीति वाच्यम्, यतः प्रकृतिसूत्रेण व्यञ्जनान्तस्य च सामान्येन प्रकृतिभावविधौ ‘राजगतः' इत्यादावपि दीर्घादिकं न भविष्यति । "व्यानान्तस्य यत्सुभोः" (२।५।४) इत्यनेन सुभोक्तविधानान्नलोपादिकं भविष्यति ? सत्यम् । एवं सति स्वरग्रहणं श्लोकपूरणार्थम् । तस्मिन् सत्यवश्यं राजगतः' इत्यादौ दीर्घाभावार्थं व्यञ्जनान्तस्येत्यत्र नियमव्याख्यानेनैव निस्तारः । तेन प्रत्यासत्त्या