________________
२७६
कातन्त्रव्याकरणम्
[क० च०]
प्रकृतिः। ननु सखायं प्राप्तः इत्यादौ विभक्तिलोपे सति निमित्ताभावन्यायेन ऐत्वे गते सख्भागस्यास्वरान्तत्वात् कथं प्रकृतिर्विधीयते इत्याह - इहेति ।(ननु सखायं प्राप्तः इत्यादौ विभक्तिलोपे निमित्ताभावन्यायादैत् गतेऽनेन सूत्रेण स्वरस्य विकृतौ सत्यां प्रकृतिर्विधीयते) सखायं प्राप्त इत्यादौ विभक्तिलोपे स्वरान्तत्वाभावात् कथमस्यावसर इत्याह - इहेति । एषोऽपि निमित्ताभावस्यैव प्रकारः । ननु तथापि या यस्येत्यादिनैव प्रकृतिभूते सखिशब्दे समायाते प्रकृतिः स्वभावसिद्धैव किमनेन प्रकृतिविधानेनेत्याह - पुनरिति । 'येन विधिस्तदन्तस्य' (कात० प०३) इति यदन्तग्रहणं तत् सुखार्थम् इति टीकायामुक्तम् ।
अत्र हेमकरः- ननु अन्तग्रहणं सुखार्थमिति कथमुक्तम् अन्तग्रहणबलात् स्वर एवान्तोऽवयवो यस्य तत् स्वरान्तम् इति अन्तग्रहणस्योपदेशार्थत्वात् । तेन ‘अतियुवाभिः, अत्यावाभिः' इत्यादौ प्रकृतिर्न भवति, उपदेशस्वरान्तत्वाभावात् । न च लाक्षणिकत्वान्न भविष्यतीति किमन्तग्रहणेनेति वाच्यम्, वर्णविधौ तस्यानङ्गीकारात् “गमहन०" (३।६।४३) इत्यत्र घस्ग्रहणेन ज्ञापितत्वात् । नैवम्। स्वरग्रहणमेव प्रतिपदोक्तार्थं भविष्यति । ननु स्वरग्रहणमन्तरेण स्वरान्तः कथं लभ्यते, येन प्रतिपदोक्तार्थं स्वरग्रहणं भविष्यति ? सत्यम् | "यजनान्तस्य यत्सुभोः" (२।५।४) इत्यत्र टीकायां 'राजानं गतः राजगतः' इत्यत्र व्यञ्जनान्तस्येत्यतिदेशेन लुप्तनकारस्यालुप्तवद्भावेन प्रत्ययलोपलक्षणन्यायेन प्राप्तस्य "घुटि चासंबुद्धौ"(२।२।१७) इति दीर्घस्य प्रतिषेधार्थमवश्यं नियमं वक्ष्यति' व्यञ्जनग्रहणबलात् । तथाहि सुभोर्यदुक्तं तद्भवतीत्युक्ते श्रुतत्वाद् यस्य यदुक्तं तस्य तदेव भवतीति न्यायाद् व्यञ्जनान्तस्यैव सुभोक्तसंभवात् तस्यैव भविष्यति न स्वरान्तस्य किं व्यञ्जनग्रहणेन ? यद् व्यञ्जनग्रहणं तद् व्यञ्जनान्तस्य सुभोक्तमेव भवति नान्यदिति नियमार्थम् । तेन — राजगतः' इत्यादौ न दीर्घप्रसङ्गः । अत इह पारिशेष्यात् स्वरान्तस्यैव प्रकृतिर्गम्यते, यत् पुनः स्वरग्रहणं तत् प्रतिपदोक्तार्थमित्याचष्टे | अतोऽन्तग्रहणं सुखार्थमिति यदुक्तं तदेव चारु |
तन्न । 'राजपुरुषः' इत्यादावतिदेशस्य विषयत्वान्नकारलोपे 'एकदेशविकृतस्यानन्यवद्भावाद्' (कात०प०१) “अवमसंयोगात्" (२।२।५३) इत्यादिना प्राप्तोऽकारलोप: "प्रकृतिश्च स्वरान्तस्य" (२।५।३) इति प्रकृतिभावान्न भवतीति लाक्षणिक