________________
२७५
नामचतुष्टयाध्याये पचमः समासपादः [दु० वृ०]
स्वरान्तस्य लिङ्गस्य युक्तार्थस्थस्य लुप्तासु विभक्तिषु प्रकृतिश्च भवति । सखा प्रियोऽस्येति सखिप्रियः, सखायं प्राप्तः सखिप्राप्तः, पितरि साधुः पितृसाधुः। गां गतः गोगतः। चकारो लोपमपेक्ष्य ‘देवेन्द्रः' इति सन्धिः स्यादेव ।।३४० ।
[दु० टी०]
प्रकृतिश्च । प्रकृतिः स्वभावः । समासे सति या यस्य लिङ्गस्य भूतपूर्वा प्रकृतिः सा तस्यैव, किन्तु प्रत्ययलोपलक्षणमिति विकृतिःप्राप्ता सा व्यवच्छिद्यते । सखा प्रियोऽस्येति "सख्युरन्, घुटि त्वै, डॉ अम्शसोरा" (२।२।२३,२४;१।६६:२।३४) एते न स्युः । एवमन्येऽपि योज्याः । चकारो लोपमपेक्ष्येति "तत्स्था विभक्तयो लोप्याः, प्रकृतिश्च स्वरान्तस्य" (२।५।२,३) इत्यर्थः । तेन प्रत्यासत्त्या विभक्तिकार्ये स्वरप्रकृतिरित्याह - देवेन्द्र इत्यादि । वाक्यसमासपक्षे प्रत्ययलोपलक्षणमिह चोदितमिति | अत एव पूर्वस्मिन् लुकं कृत्वा इदं सूत्रं न कर्तव्यमिति बालश्चोदयन्ति, लुग्लोपे न प्रत्ययकृतमिति भावः । तदापि युवाम् अतिक्रान्तेन अतियुवया, अत्यावयेति युवावादेशं प्रति कथं प्रत्ययलोपलक्षणमिति | अन्तग्रहणं च सुखार्थमेव ।।३४० ।
[वि० प०]
प्रकृतिः । इह विभक्तिलोपे सति या यस्य लिङ्गस्य , भूतपूर्वा प्रकृतिः सा तस्यैवेति कृते पुनः प्रत्ययलोपलक्षणमिति न्यायेन प्राप्ता विकृतिरतः प्रकृतिरुच्यते । सखा प्रियोऽस्येत्यादि "सख्युश्च, घुटि त्वै, अर डौ, अम्शसोरा" (२।२।२३,२४; १।६६,२।३४) इत्येतैरन्प्रभृतय आदेशाः समासे न भवन्तीति । यद्येवं 'देवानामिन्द्रः देवेन्द्रः, खरेणोढः खराढः' इति समासे कथं सन्धिलक्षणा विकृतिरित्याह - चकार इत्यादि । न केवलं 'तत्स्था विभक्तयो लोप्या भवन्ति प्रकृतिश्च स्वरान्तस्य' इत्यर्थः । ततः प्रत्यासत्त्या विभक्तिसंबन्धिष्वेव कार्येषु प्रकृतिः न च सन्धिलक्षणं विभक्तिकार्यम् । अत एव प्रत्ययलोपलक्षणेनैव प्राप्ता विकृतिः प्रतिषिध्यत इत्युक्तम् । यद्येवं पूर्वसूत्रे लुगेव क्रियतां 'लुग्लोपे न प्रत्ययकृतम्' (द्र०, कलाप०, पृ० २२२, सं० ६९) इति प्रतिषेधो भविष्यति । नैतद्, एवं सति व्यञ्जनान्तेषु प्रत्ययलोपलक्षणं नोपपद्यत इति । ततो युवाम् आवाम् अतिक्रान्तैरिति विग्रहे 'अतियुवाभिः, अत्यावाभिः' इति न सिध्यति द्विवाचिप्रत्ययाभावात् । लोपे तु प्रत्ययलोपलक्षणमुपतिष्ठत इति युवावौ भवत एव ।।३४०।