________________
४३६
कातन्त्रव्याकरणम्
३७२. बाह्रादेश्च विधीयते [ २/६/६ ]
[ सूत्रार्थ ]
बाह्वादिगण - पठित शब्दों से अपत्य अर्थ की विवक्षा में इण् प्रत्यय होता
है ।। ३७२ ।
[दु० वृ० ]
बाह्लादेर्गणादपत्येऽभिधेये इण् विधीयते । बाहविः, उपबाहविः । बैन्दविः, औपबिन्दविः। गोत्रादिभूतादेव - बाहुर्नाम कश्चित् तस्यापत्यं बाहवः । बाह्लादिराकृतिगणः || ३७२ । [दु० टी०]
बाह्वा० । बाहु, उपबाहु, चटक, बिन्दु, उपबिन्दु, विकला, कृकला, चूडा, वलाका, मूषिका, भगमाला, ध्रुवका, शनका, सुमित्रा, दुर्मित्रा, पुष्करसद्, अनुहरत्, अनड्वाह्, देवशर्मन्, अग्निशर्मन्, कुनामन्, सुनामन् पञ्चन्, सप्तन्, अष्टन्, सुधावन्त्, उदन्च्, शीर्ष, माष, कल्प, शराविन्, क्षेम, धन्वन् (क्षमधन्वन्), शङ्खनादिन्, शङ्खभेदिन्, शृङ्खलादिन्, खरनादिन्, नगरमर्दिन्, लोम, अजीगर्त, अष्टागर्त, कृष्ण, युधिष्ठिर, नकुल, अर्जुन, साम्ब, गद, प्रद्युम्न, सम्भूयोऽम्भोऽमितौजसां सलोपश्च । व्यास, सुधावत्, वरट, चाण्डाल, निषाद, बिम्ब (विस्म), कश्चान्तः । अनकारार्थोऽयमारम्भः क्वचिद् बाधकबाधनार्थः। सम्भूयआदीनामुभयार्थः पाठः !
साम्भूयिः, आम्भिः, आमितौजिः । सुधावच्छब्दो वन्त्वन्तः सौधावतिः । उदन्शब्दः क्विबन्तो निपातनादिह नलोपाभावः, औदञ्चिः । शीर्षशब्दः शिरः पर्यायः, तदन्तविधिरत्र केवलस्य नपुंसकस्यापत्येन योगाभावात्, तथा लोमन् - शब्दोऽपि । हास्तिशीर्षिः, और्ध्वलोमिः । हस्तिशिरसोऽपत्यम् इति विग्रहेऽपि दृश्यते । व्यासादीनां गोत्रादिभूतानामिति न संबध्यतेऽनादिपुरुषत्वाद् वैयासकिः । बाह्लादिराकृतिगण इति । जाङ्घिः, वामजाङ्घिः, ऐन्द्रशर्मिः, आजधेनविः ।। ३७२ ।
[क० च०]
बाहुरादिर्यस्य गणस्येति विग्रहः । " इणतो बाह्वादेश्च” इत्येकयोगे कृतेऽतः स्वरूपस्य ग्रहणं स्यादिति पृथगुच्यते । औपबाहविरित्यादि । बाहुबिन्दुपाठेनैव सिद्धे