________________
१९२
कातन्त्रव्याकरणम् ऐश्वर्ये' (१।४०८;२।४४)।व्याप्यविवक्षायां तु सर्पिर्दयते, मध्वीष्टे इति जानातेरज्ञानार्थस्य प्रयोगे करणकारके षष्ठीविधानार्थं "जोऽविदर्थस्य करणे" (अ० २।३।५१) इति केनचिदुक्तं तदिह कथमित्याह - सर्पिष इत्यादि |संभ्रान्तिज्ञानमज्ञानमेव ज्ञानकार्याकरणात् । अविपरीतार्थपरिच्छेदो हि ज्ञानकार्यमिति ।अज्ञानार्थो जानातिर्मिथ्याज्ञानवचनः । तथाहि सर्पिषि अनुरक्तो विरक्तो यदेवोदकादिकं पश्यति तत् सर्पिरित्यध्यवस्यति । तत्र सर्पिषोऽसतः क्रियासिद्धौ साधकतमत्वाभावात् कथं करणत्वम्, अतः संबन्ध एव षष्ठीति । अथ सर्पिषा करणभूतेन प्रवर्तते इति प्रवृत्तिवचनो जानातिरविदर्थः ।
यदाह जयादित्यः- सर्पिषा करणभूतेन प्रवर्तते इत्यर्थः । ततः करणे तृतीया स्यादिति युक्तम् । तथाहि मिथ्याज्ञानपूर्विकायां प्रवृत्तौ जानातिर्वर्तते इत्यसपिरेव सर्पिष्टयाऽध्यवसीयमानमविद्यमानत्वान्न प्रवृत्तिक्रियायां करणं भवितुमर्हतीति यत् किञ्चिदेतदपीति जानीते इति । रुचादौ "निहवे ज्ञा" (३।२।४२-३९) इत्यनुवर्तमानेऽकर्मकश्चेत्यात्मनेपदम् । यद्यपि प्रत्युदाहृतम् अविदर्थस्येति किम् ? स्वरेण पुत्रं जानाति । अत्रापि विद्यमानस्य स्वरस्य ज्ञानक्रियायाः साधकतमत्वात् करणत्वं सिद्धमेव । एवमन्येऽपीति सर्पिषो नाथते । 'आशिषि नाथः' इति न वक्तव्यम् । व्याप्यविवक्षायां द्वितीयापि-सर्पि थते, मधु नाथते । सर्पिर्मे भूयादित्याशास्ते इत्यर्थः । 'आशिषि नाथः' इति रुचादित्वादात्मनेपदम् । यदप्युक्तम् आशिषीति किम् ? माणवकम् उपनाथति, अज्ञ पुत्रकाधीष्वेति । एतदपि व्याप्यविवक्षायां सिद्धम् ।
किञ्च माणवकस्योपनाथतीति संबन्धषष्ठ्या भवितव्यमेव । तथा व्यवहपणिदिवीनां व्यवहारार्थानां प्रयोगे संबन्ध एव षष्ठीति "व्यवहपणोः समर्थयोः, दिवस्तदर्थस्य च" (अ० २।३।५७, ५८) इति न वक्तव्यम् । शतस्य व्यवहरति, शतस्य पणायते, शतस्य दीव्यति' इति । तथा कर्मणि शतं व्यवहरतीत्यादि । यद्येवं षष्ठीविधानप्रकरणमिदमनर्थकमिति चेत्, सत्यम् । मन्दधियां सुखार्थम् । अन्यथा त्यादिप्रयोगे स्पष्टतया कर्मैव प्रतिपद्येरन् ।। ३२३ ।
[क० च०]
स्मृत्य० । अर्थग्रहणमर्थादिकर्मनिरासार्थम् । ननु स्मृतिश्चासावर्थश्चेति कर्मधारये सति स्मृत्यर्थ एव यत्र कर्म स्यात् तत्रैवायं विधिरिति सूत्रार्थः कथं न स्यात्, ततश्च