________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः चिन्तनं करोति, स्मृतिं करोतीत्यादौ षष्ठी स्यात् ? न चार्थशब्दो बहुव्रीह्यर्थ इति वाच्यम्, अर्थादिव्यावर्तनेनैव तस्य चरितार्थत्वात् ? सत्यम् । करोतेः प्रतियत्न इत्यादिसूत्रोपात्तधातूनां कर्मविधानप्रदर्शनादिहापि स्मृत्यर्थानां धातूनां कर्मणीति कल्पनीयमिति । ननु परमते अधीगर्थानामित्यत्र शेषाधिकाराद् यत्र शेषत्वम्, तत्र षष्ठी | यत्र शेषत्वविवक्षा नास्ति तत्र कर्मत्वाद् ‘मातरं स्मरति' इति द्वितीया सिध्यति । अस्मन्मते किं स्यादित्याह - उत्तरत्रेति वृत्तिः।
नन्वत्र “अधीगर्थदयेशां कर्मणि" (अ० २।३।५२) इति पाणिनिसूत्रम् । अस्यार्थः- अधिपूर्व 'इक् स्मरणे' (२।१२), तदर्थोऽधीगर्थः स्मृत्यर्थ इति यावत् । "शेषे षष्ठी" (अ० २।३।५०) इति पूर्वसूत्रादस्मिन् सूत्रे शेष इत्यनुवर्तते । ततश्चाधीगर्थानां कर्मणि शेषत्वेन विवक्षिते षष्ठी भवति । यत्र तु शेषत्वं न विवक्ष्यते तत्र कर्मत्वमेव । तेन तन्मते कर्मत्वविवक्षायां 'माता स्मर्यते' इति सुतरां सिध्यत्येव [ यद् वा अनभिहिताधिकारादभिहिते न स्यात् ] । अस्मन्मते शेषत्वाशेषत्वाविशेषादत्रापि षष्ठी स्यादित्याशयेनाह-वृत्तौ कथमित्यादि । यदि उक्तार्थत्वान्न स्यात्, तर्हि कथं 'मातुः स्मर्यते' इत्यादयः । अत्राह - ययेवमिति।
नन्यस्मनपने शेषाधिकारो नास्ति, ततश्चावश्यमेवात्र कर्मत्वाभावो वक्तुमुचितः । अन्यथा 'मातुः स्मर्यते' इति भावे प्रत्ययो न स्यात् । सर्वथाकर्मकादेव भावाख्यातप्रत्ययस्येष्टत्वात् । तथा च श्रीपतिः- भावाख्यातं ध्रौव्यादित्याशङ्क्याहअविवक्षितकर्मकत्वादिति । भाष्यकाररीत्यैव ग्रन्थो व्याख्येयः । [भाष्यमते पश्चादपि कर्मविवक्षा नास्त्येवाख्याते तथानभिधानादिति सम्बन्धे षष्ठीत्युक्तम् ।] त्रिमुनिसंग्रहकारमतेऽपि वृत्तिः संगच्छते । तथाहि, ते हि पूर्वं कर्माविवक्षायां भावे प्रत्ययं कृत्वा पश्चाद् विवक्षिते कर्मण्यनेन सूत्रेण षष्ठीत्याहुः । अस्मिन् व्याख्याने यदीत्यादिवृत्तिपङ्क्तेरयमाशयः । त्रिमुनिसंग्रहकारमते अनेन सूत्रेण कर्मणि षष्ठी सिध्यत्येव । कर्मणः संबन्धितया यदि विवक्ष्यते तदा 'मातुः स्मर्यते' इति भवत्येवेति । "अधीगर्थदयेशाम्" (अ० २।३।५२) इति पाणिनिसूत्रे दयेशोरुपादानं खण्डयति - तथेति । ननु परमते यत्र शेषत्वविवक्षा नास्ति तत्र ‘सर्पिर्दयते, मधु ईष्टे' इत्यपि प्रयोगो भवति । अस्मन्मते संबन्धोऽत्र यदि विवक्ष्यते तदात्र नित्यं षष्ठ्येव ग्यादित्याह - व्याप्यग्विक्षायापिति ।