________________
१९४
कातन्त्रव्याकरणम् ‘मधु ईष्टे' इति, मधु स्वीकरोति' इत्यर्थः । तथा च निरूपितस्वीकारे धातोवर्तमानत्वात् सकर्मकत्वम्, अन्यथा ऐश्वर्यार्थत्वादकर्मता स्यात् । जानातेरित्यादि । ज्ञ इति "जोऽविदर्यस्य करणे" (अ० २।३।५१) इति पाणिनिः। अस्याः - “षष्ठी शेषे" (अ० २।३ । ५०) इत्यतः पूर्वसूत्रात् षष्ठीति वर्तते । अविदर्थः अज्ञानार्थस्तत्र प्रवृत्तिवचनो मिथ्याज्ञानवचनश्च जानातिरिह गृह्यते इति काशिकावृत्तिः। तत्र संभ्रान्तिज्ञानरूपमर्थमादायाह - संभ्रान्तीत्यादि । अविपरीतार्थेति । हि यस्मादर्थेऽविपरीतार्थस्य सत्यस्य घटपटादेः परिच्छेदोऽयं घट इति । अन्यव्यावर्तनं तज्ज्ञानजन्यमित्यर्थः । असपिरेव सर्पिष्टयेति । ननु यदि असतः क्रियासिद्धौ साधकतमत्वाभावात् करणत्वं नास्तीत्युक्तं कथं सर्पिष्टयेति करणे तृतीया ? सत्यम् । यद्यप्युदकादौ प्रयोगस्थितिं प्रति सर्पिःस्वरूपा व्यक्तिरसती कार्याक्षमत्वान्न करणं भवितुमर्हति, तथाप्यन्यत्र प्रसिद्धा सर्पिष्टादिजातिरत्राध्यवसायहेतुर्भवत्येवेति साम्प्रदायिकाः। तन्न। सर्पिष्ट्वादिजातिवदन्यत्र सिद्धस्य सर्पिषोऽप्यारोपात् करणत्वसंभवेन पजीकृता असतः साधकतमत्वाभावात् करणत्वं नास्तीति यदुक्तं तदसंगतेः । तस्मादसत्या अपि सर्पिष्टादिजातेर्विवक्षया करणत्वे को विरोधः । कथमन्यथा शशविषाणम् इत्यादौ प्रयोगस्थितिं प्रति कर्तृत्वेन प्रतीतिः।
श्रीपतिरपि सर्पिषा भ्रान्तो भवतीत्यपि प्रयुक्तम् । तर्हि कथमसतः करणत्वं नास्तीति पजी संगच्छते, असतोऽपि विवक्षया करणत्वे विरोधाभावात् ? सत्यम्, एतद् दूषणं दृष्ट्वैव यत् किञ्चिदेतदपीति पत्रीकृता प्रयुक्तम् । यत् किञ्चिदिति ।निन्दितमित्यर्थः । परमार्थतस्तु करण एव संबन्धविवक्षेत्याशयः। हेमकरस्तु एतन्न बुद्ध्वा करणे संबन्धविवक्षया षष्ठी विधाय ‘सर्पिषो जानीते, मधुनो जानीते' इति यत् किञ्चित् दिमावमिदमुक्तमिति। कर्मणि संबन्धविवक्षया सर्पिषो नाथते' इत्यादिकम् उदाहर्तव्यम् इत्यर्थः । अत एवाह - एवमन्येऽपीति व्याचष्टे । तदसत्, एवमन्येऽपीत्यनेनैव तस्य वक्ष्यमाणत्वात् तस्याः पङ्क्तेर्वैयर्थ्यापत्तेः । "आशिषि नापः" (अ० २।३।५५) इति पाणिनिः। शेषे षष्ठी, ततःषष्ठी प्रवर्तते । “अधीगर्यदयेशां कर्मणि" (अ० २।३।५२) इत्यतः कर्म वर्तते । ततश्च नाथतेः कर्मण्याशंसायां षष्ठी स्यादित्यर्थः । तदभावादस्मन्मते किं स्यादित्याह-एवमन्येऽपीति । यथा करणे संबन्धविवक्षा तथा कर्मण्यपीत्यर्थः । ननु परमते यत्र शेषविवक्षा तत्रैव षष्ठी । यत्र तद्विवक्षा नास्ति, तत्र कर्मत्वमेव ।