________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१९१ उक्तार्थत्वात् । मातुः स्मर्यते इति, यदि संबन्धोऽत्र विवक्ष्यते । तथा सर्पिषो दयते, मधुन ईष्टे, सर्पिषो जानीते, मधुनो जानीते । संभ्रान्तिज्ञाने सर्पिषोऽसतः करणत्वाभावात् संबन्ध एव षष्ठी । एवमन्येऽपि ।।३२३ ।
[दु० टी०]
स्मृत्य० । कथमित्यादि । माता स्मर्यते इति । उक्तार्थानामप्रयोग इति यथा न द्वितीया तथा कर्मणि विहिता षष्ठ्यपि न भवति । 'मातुः स्मर्यते' इत्यविवक्षितकर्मवद्भाव एवात्मनेपदम्, संबन्धस्य विद्यमानत्वादिति भावः । तथेत्यादि । 'दय दाने, ईश ऐश्वर्ये' अनयोः कर्मणि षष्ठी न वक्तव्यैव । सर्पिषः सम्बन्धि दानं करोति, मधुनः संबन्धि ईशनं करोति । कर्मविवक्षायां तु सर्पिर्दयते, मध्वीष्टे । जानातेरविदर्थस्य करणे षष्ठीत्ययुक्तम् । सर्पिषः संबन्धि ज्ञानं करोति, सर्पिषि रक्तः प्रतिहतो वेत्यर्थः।
अथाज्ञानपूर्विकायां प्रवृत्तौ जानातिरविदर्थः । तदा करणे तृतीया स्यादित्याह - सर्पिष इत्यादि । तथाप्यसर्पिरुदकादि सर्पिरिति प्रतिपद्यमानस्य प्रवृत्तिरिति । सर्पिषोऽसत्वम् । असतश्च क्रियासिद्धौ कथं प्रकृष्टोपकारकत्वमिति । यदा तु ज्ञानार्थस्तदा करणमेव । स्वरेण पुत्रं जानाति । एवमन्येऽपीति । आशी क्रियस्य नाथतेः- सर्पिषो नाथते, सर्पि थतो । आशिषोऽन्यत्र माणवकमुपनाथति पाठाय, माणवकस्योपनाथतीति संबन्धे षष्ठ्यपि केन निवार्यते । तथा व्यवहरतेः पणिदिवोश्च व्यवहारार्थयोःशतस्य व्यवहरति, शतस्य पणायते, शतस्य दीव्यतीति । शतं व्यवहरति, शतं पणायते, शतं दीव्यतीति । स्तुत्यर्थस्य पणेरायः इति मतेन शतस्य पणते, शतं पणते इति । एवं सति षष्ठीविधानप्रकरणमिदं मन्धधियां सुखार्थम् । अन्यथा त्याद्यन्तप्रयोगेष्वेव स्पष्टतया ते हि कर्मैव प्रतिपद्यन्ते ।।३२३ ।
[वि०प०]
स्मृत्य० । कथमित्यादि कर्मणि षष्ठी विधीयते । तच्च कर्म आत्मनेपदेनैव कर्मण्युत्पन्नेनोक्तमिति षष्ठी न भवति । यद्येवम्, कथं 'मातुः स्मर्यते' इति ? सत्यम् । नेदं कर्मण्यात्मनेपदम् अपि तु भावेऽविवक्षितकर्मत्वात् । अतः संबन्धे षष्ठीत्याहयदीत्यादि । स्मर्यते इति । “यणाशिषोर्ये" (३।४।७४) इत्यनुवर्तमाने "गुणोऽर्तिसंयोगायोः" (३।४।७५) इति गुणः । तथेति संबन्धविवक्षयेत्यर्थः । 'दय दाने, ईश