________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
२२९ प्रमङ्गनम् । व्यञ्जनान्तादिति विशेषणम् इनन्तनिरासार्थम् । “निसिनिन्दिनिक्षां वा" णोपदेशत्वान्नित्यं प्राप्तम् - प्रणिंसनम्, प्रनिंसनम् । प्रणिन्दनम्, प्रनिन्दनम् । प्रणिक्षणम्, प्रनिक्षणम् ।
__ भाभूपूकमिगमिप्यायिवेपिभ्य इनन्तेभ्योऽपि न स्यात् । 'प्रभानम्, प्रभवनम्, प्रकमनम्, प्रगमनम्, प्रप्यायनम्, प्रवेपनम्' । एवम् – प्रभापनम्, प्रभावनम् इत्यादि । "नशेः षकारककारान्तस्य" - प्रनष्टः, परिनष्टः, प्रनङ्क्षति, परिनङ्क्षति | उपसर्गादिति समाप्तम् । तथा षकारात् पदे – निष्पानम्, सर्पिष्पानम् । अपदे तु णत्वं स्यादेव - सर्पिष्केण, यजुष्केण । तथा पदव्यवधानेऽपि - माषाणां कुम्भः, तं वपतीति कर्मण्यण् । माषकुम्भवापेन, माषकुम्भवापिनौ ।आभीक्ष्ण्ये णिनिः । चत्वार्यङ्गानि अस्येति चतुरङ्गः, तेन योग इति चतुरङ्गयोगेण । आर्द्रगोमयेण, शुष्कगोमयेण । गोर्विकारे मयट् । 'पदे' न वर्तते इति स्यात् णत्वम् । “क्षुभ्नादीनां च" (कात० परि० - ण० ३७)- क्षुम्नाति, क्षुभ्नीतः, क्षुभ्नन्ति । एकदेशविकृतस्यानन्यवद्भावान्नृतिश्चेक्रीयितान्तः- नरीनृत्यते । तृपेश्च नुप्रत्यय:- तृप्नोति । परिगहनमिति संज्ञायाम् । परिणदनम् इति । उपसर्गाण्णोपदेशत्वात् प्राप्तः । आचार्यभोगीनः । भोगोत्तरपदादीन इत्यादयो णत्वप्रतिषेधविषया अनुसर्तव्याः । बहुलं च सर्ववादिसम्मतमेव । अथ त एव विषयाः सुसंगृहीता येषां लक्षणं प्रपञ्चश्च । एवमुदाहरणैरेव प्रपञ्चो न्याय्यो लक्षणेनातिप्रसङ्गात् 'सिद्धस्य हि पुनर्वचने का निष्ठा' इत्युदाहरणैरेव प्रपञ्चो दर्शित इति ।।३३३ ।
[वि० प०]
रपृ० । वान्तर इति । वकारोऽयं दन्त्योष्ठ्योऽपवर्गीय इति पृथगुच्यते । शीर्णमिति । शृणातेः क्तः । “ऋदन्तस्येरगुणे" (३।५।४२) इतीर् । “नामिनो वोः" (३।८।१४) इत्यादिना दीर्घः । “रानिष्ठातो नः" (४।६।१०१) इत्यादिना निष्ठातकारस्य नकारः । तिसृणाम् इति षष्ठीबहुवचने “त्रिचतुरोः स्त्रियाम्" (२।३।२५) इत्यादिना त्रिशब्दस्य तिम्रादेशः। “आमि च नुः" (२।१।७२) इति नुरागमः । स्वरत्वाद् इत्यादि । तृहि बृहि वृद्धौ, युडन्तः । “अनिदनुबन्धानाम्" (३।६।१) इति प्रतिषेधात् । इदनुबन्धानामनुषङ्गः साधित एव । तथा च तत्र वक्ष्यति । अत एव वर्जनादिदनुबन्धानां नोऽस्तीति । 'उर केण' इत्यादि । उरः कायति, उरः पायतीति । "आतोऽनुपसर्गात् कः" (४।३।४) इति कप्रत्ययः । इहानुस्वारविसर्जनीययोः स्वरत्वं सन्धौ दर्शितमेव । कथं तर्हि जिह्वामूलीयोपध्मानीयाभ्यामपि स्थानिवद्भावादिति चेत्,