________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
४२७
कुल, भ्रूण, श्रविष्ठा, पवित्रा, परमविन्दा, लोमिन्, श्याम, धूम, धूम्र, वाग्मिन्, विश्वानर, कूट, जड, जल, नवग्रीष्म, अर्हन्, वीक्ष, विशम्प, विशन, विशाल, गिरि, चपल, नय, शय, वत्सक (वासक), वैण्य, शप, आत्रेयेश पुंसि, जात, अर्जुन, अर्धन्, शूद्रक, सुमनस्, दुर्मनस्, अभिमनस्, आत्रेय भरद्वाजे, भरद्वाज आत्रेये, उत्स (उत्सव), आतप, कितव, शिव, खदिर, भर्ग त्रैगर्ते ।
इणाद्यपवादोऽयम् | शलङ्कु शलङ्कं चेति पठ्यते । शलङ्कुशब्द आयनणमुत्पादयति शलङ्कं चापद्यते । शालङ्कायन इति । कथं शालङ्किरिति ? ' रूढिशब्दा हि तद्धिता:' इति इणपि दृश्यते शलङ्कभावश्चेति । अग्निशर्मन् वृषगणे इति । आग्निशर्मा-यणो वृषगणः, अन्यत्राणेव आग्निशर्मः । गोत्रादिभूतात्तु बाह्वादित्वादिण् आग्निशर्मिः । द्वीपशब्दोऽत्र पठ्यते, स च देशवचनः, साहचर्यादपत्येन युज्यते । अपत्यवद्भ्यां स्त्री-पुंसाभ्यां युक्तो देशोऽप्यपत्यवान् । द्वैपायनो व्यासः [ अन्ये तु द्वीपायनो व्यासः] । अपरे तु द्वीपा इति गन्धकन्या नामाचक्षते । नदीमा नुषीनामभ्योऽणेवाभिधीयते इति । अणि प्राप्ते आयनण् भवति । अनन्तरापत्येऽप्यत्राभिधीयते । पौत्ररूपेणैव वर्तत इति अन्ये। अमुष्य इति पठ्यते । आमुष्यायणः, निपातनाद् विभक्तेरलोप इति अन्ये । कृष्णवणौ ब्राह्मणवाशिष्ठे इति कृष्णवशब्दौ यथाक्रमं ब्राह्मणे वाशिष्ठे चार्थे आयनणमुत्पादयत इति । कार्ष्णायणो ब्राह्मणः, वाणायनो वाशिष्ठः, वशिष्ठगोत्र इत्यर्थः । अन्यत्र कार्ष्णिः, वाणिः । क्रोष्टः, क्रोष्टं चेति । क्रोष्टुशब्द आयनणमुत्पादयति । क्रोष्टं चापद्यते - क्रौष्टायनः ।
हरितादिर्विदाद्यन्तर्गणः ऋषिवचनः, पौत्रादावेवापत्येऽभिधानादणन्तश्च । पौत्रादेरस्त्रियामपत्यमात्रे आयनणमुत्पादयति-हारितायन इति । गर्गादिण्यसहचरित इणपि पित्रादविहित एव ग्रहीतव्यः । पौत्रादेरस्त्रियां गुर्वायत्त इत्यपत्यमात्रे आयनण् स्यात् । गार्ग्यायणः, दाक्षायणः। शरवच्छुनकदर्भभार्गववात्स्याश्रयणेषु (वात्स्याग्रयणेसु) । शारद्वतायनो भवति भार्गवश्चेत् । शारद्वतोऽन्यः बिदादित्वादण् । शौनकायनो भवति वात्स्यश्चेत् । शौनकोऽन्यः, बिदादित्वादण् । दार्भायणो भवति आश्रयण - (आग्रयण - ) श्चेत्, दार्भिरन्यः, इणतः । पौत्रादावित्येव शारद्वतः । पर्वतजीवन्तौ वेति - पार्वतायनः, पार्वतिः, जैवन्तायनः, जैवन्तिः । पौत्रादावित्येव - पार्वतिः, वैजन्तिः । द्रोणो वेति पृथग्वचनादपत्यमात्रे आयनण् - द्रौणायनः, द्रौणिः । पुनर्वावचनमुत्तरत्र वानिवृत्त्यर्थम् ।