________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
बाधिकेति पञ्जीकृतैव सिद्धान्तितत्वात् । ननु ईप्सितानीप्सितविशेषमादाय प्रवर्ततामिदमिति चेत्, उच्यते - कर्मसंज्ञाबाधकमिदं सूत्रम् । ततश्च गौणकर्मणो बाधासंभवे मुख्यकर्मणो बाधानौचित्यमिति गौरवात् । न हि 'यवेभ्यो गां रक्षति' इत्यत्र उभयोरेव गौणत्वम् | येनोभयोरेव कर्मणोर्युगपदपादानत्वम् भविष्यति, किन्तु यवादेरेव गौणत्वम्, न गवादेः, रक्षधातो रक्षणपूर्वकवारणार्थत्वात् । यवादेर्गौणत्वं च वारणविशेषणीभूताया रक्षणक्रियाया व्याप्यत्वादित्यर्थः ।
४३
यवं रक्षतीत्यादौ प्रधानकर्मणो बाधा न सम्भवत्येव, परत्वात् कर्म एवेति । ननु कथं रक्षणपूर्वकं वारणमित्युक्तं टीकाविरोधात् । तथाहि रक्षतिरयं गोर्वारणपूर्वकं यवस्य रक्षणमाह – स्वभावादिति ? सत्यम् । टीकायां वस्त्वर्थः कृतः अस्माभिस्तु प्रतीयमान एवार्थो निरूपित इति। तथा त्रिलोचनेनापि - प्राधान्यं च तस्य शाब्दमित्युक्त्वा न तु वास्तवम् इत्युक्तम् ।
"
अयमर्थः प्राधान्यं शाब्दम् = शब्दोपस्थाप्यम् । यवरक्षणेन हेतुना ईप्सितस्य स्वकीयत्वेन इष्टस्यानीप्सितस्य परकीयत्वेनानिष्टस्य । यद्वा 'ईप्सिते' इति कर्तरि निष्ठा, यवानाप्तुमिष्टवतः अनाप्तुमिष्टवतः समीपगामिनोऽपि गोर्वञ्चनादित्यर्थः । न च वास्तविकार्थं परित्यज्य शब्दार्थः कथं गृह्यते इति वाच्यम्, 'शब्दप्रमाणका हि वैयाकरणाः' इति न्यायात् । तथा अहिभ्य आत्मानं रक्षतीत्यत्राहेर्वारणपूर्वकरक्षणार्थस्य टीकाकृतोक्तत्वात् । कथं रक्षणपूर्वकवारणार्थ इत्युच्यते । आस्तां तावत् का नो हानिः । नथाहि वारणाक्रियाविशेषणत्वेनात्र गुणीभूतत्वात् तद्व्याप्यस्य गुणीभूतस्याहेरपादानत्वं सुतरां भवतीति चेत्, न । यदि तत्रानीप्सितेऽपि कर्मसंज्ञाऽपादानेन बाधिष्यते । तदा. ईप्सिते कर्मसंज्ञां बाधते इति वृत्तिर्न सङ्गच्छते ? सत्यम् । अत्रापि रक्षणपूर्वकं वारणमेवार्थः । तथाहि अहिभ्यः सकाशादात्मानं रक्षन्नात्मानमेव वारयतीत्यर्थः । अहीनां वारणपूर्वकं रक्षणमिति टीकापङ्क्तेरयमर्थः - अहीनामिति समीपसम्बन्धे षष्ठी | वारणात् पूर्वं रक्षणं बारणपूर्वरक्षणम् । रक्षणपूर्वं वारणमित्यर्थः । पूर्वकमिति पाठे तु स्वार्थे कप्रत्यय इति भावः । अत एव 'अहिभ्यः' इत्यत्र बुद्धिकृतापायस्य विद्यमानत्वात् पूर्वेणैवापादानत्वम् । एतेन चकारोऽपि सुखार्थ इति युक्तमुक्तम् पञ्जीकृतेति ।
हेमकरस्तु अनीप्सितस्य विशेषणं यदीप्सितम् ईप्सितस्य विशेषणं यदीनप्सितं तदपादानमिति। अन्यथा यदि यवेभ्यो गां रक्षतीत्यादौ एकस्मिन् प्रयोगे युगपद