________________
४२
कातन्त्रव्याकरणम् एवं चौरेभ्यो मित्रं वारयति, कूपाद् अन्धं वारयति' इत्यन्धोऽत्रेष्टस्तदपेक्षया कूपोऽनिष्ट एवेति। अन्यः पुनराह - प्रदेशभावेन कूप इष्टः आप्तुमन्धस्य नायमिष्टपर्यायः इहाव्युत्पन्न ईप्सितशब्द इति तत्र कर्तुः क्रियया यद् व्याप्यते, तत् कारकं कर्मेति तदपवादोऽयम् आरभ्यते । गां रक्षतीति प्रधाने कर्मणि परत्वात् कर्मसंज्ञैव । यवरक्षणेनानीप्सित ईप्सितो वा गौर्यिते इति । प्राधान्यं पुनः शब्दकृतम्, न वस्तुकृतमिति तर्हि अनीप्सिते बुद्धिकृतसंश्लेषापाय संभवत्येव, किं चकारेण ? सत्यम् । ईप्सितमपादानम् अनीप्सितं न भवतीति व्यावृत्तिमाशङ्केत ।।२९४।
[वि० प०]
ईप्सितम्० । कूपादन्धमित्यादि । न केवलम् ‘अहिभ्य आत्मानं रक्षति' इत्यनीप्सिते उदाहरणमपि त्वेतदपि इत्यपिग्रहणेन सूचयति। तथा ह्यन्धोऽवेष्टस्तदपेक्षया कूपोऽनिष्ट एवेति । अन्यः पुनरिदम् ईप्सिते मन्यते । तथाहि नायम् इष्टपर्यायोऽव्युत्पन्न ईप्सितशब्दः अपि तु आप्तुमिष्टम् ईप्सितम् । कूपश्चाप्तुमिष्टो भवति, अन्धस्य तप्रदेशभावेन । स हि कूपवन्तं प्रदेशं परिजिहीर्घः पूर्वं तमेव आप्तुमिच्छतीति । ईप्सित एवोदाहरणं पूर्वपक्षे तु अव्युत्पन्ने इष्टपर्याये ईप्सितशब्दो द्रष्टव्यः ।
अथ किमर्थमिदं यावता बुद्धिनिबन्धनमवधिमात्रमत्रापि विद्यते इत्ययुक्तम्, रक्षणक्रियाया व्याप्यत्वात् कर्मत्वमेव स्यात् । अतस्तदपवादोऽयमारभ्यते । तच्चेह कर्म द्विविधम् प्रधानमप्रधानं च । तत्राप्रधानं यवादि, प्रधानं गवादिकम् । प्राधान्यं च तस्य शाब्दं यवरक्षणेनेप्सितस्यापि गोर्वञ्चनात्, न तु वास्तवम् । तत्र प्रधाने कर्मणि "तेषां परसुभयप्राप्तौ"(२।४।१६) इति परत्वात् कर्मत्वमेव । अप्रधाने तु कर्मत्वं बाध्यते । तत् पुनरीप्सितम् इत्याह - ईप्सिते कर्मसंज्ञा बाधते इति । तथापि चकारो व्यर्थोऽनीप्सिते बुद्धिकृतापायस्य विद्यमानत्वाद् इति चेत्, सत्यम् । ईप्सितमपादानमित्युक्ते सत्यनीप्सितं न भवतीति व्यावृत्तिमाशङ्केत मन्दधीरिति ।।२९४।
[क० च०]
ननु ईप्सितमनीप्सितं चापादानमित्युक्ते ‘यवेभ्यो गां रक्षति' इत्यत्र युगपद् उभयत्र यवं रक्षतीति केवले ईप्सितयवे वा कथमपादानत्वं न स्यात् । नैवन्, अत्र परत्वात् "तेषां परमुभयप्राप्ती" (२१४।१६) इत्यनेन प्रधाने कर्मणि द्वितीयैवास्ति