________________
८८
कातन्त्रव्याकरणम्
तदा 'स्तोकं स्वापयति छात्रम्' इत्यत्र स्वपधातोरपि सकर्मकत्वाद् ध्रौव्यगतीत्यादिनाऽनिनन्तस्य स्वपेः कर्तुश्छात्रस्य कर्मसंज्ञा न स्यात् । किञ्च स्तोकं गन्तेत्यत्र स्तोकशब्दात् “कर्तृकर्मणोः कृति नित्यम्” (२।४।४१ ) इत्यनेन कृद्योगे कर्मणि षष्ठी स्यात् । किञ्च सुखं स्थितानि आगाराणि छात्रस्येत्यत्र धातोः सकर्मकत्वात् “क्तोऽधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः” ( ४ । ६ । ५३ ) इत्यनेन ध्रौव्यलक्षणः क्तोऽधिकरणे न स्यात् । किञ्च ' स्तोकं भीतः ' इत्यत्र " गत्यर्थाकर्मक० " (४ | ६ |४९) इत्यादिनाकर्मक-लक्षण: कर्तरि क्तप्रत्ययो न स्यात् । एतददोषपरिजिहीर्षया श्रीपतिदत्तोऽपि "द्वितीयाकारकविधावेकाधिकरणं धातोः " (कात० परि०, का० १७ ) इति सूत्रमाचष्टे । तदभावेऽस्मन्मते किं स्यात् ? सत्यम् ।
सर्वो हि धात्वर्थः करोत्यर्थेनाभिव्याप्त इत्यनेन धात्वर्थसन्निविष्टः करोत्यर्थो नोच्यते, येन धातोः सकर्मकता' स्यात् । किन्तु साधनप्रत्यायकप्रत्ययप्रतीयमानः करोत्यर्थः, तेन प्रत्ययार्थतात्पर्यपरिप्राप्तकरोत्यर्थव्याप्य एव धात्वर्थः । ' स्तोकं स्वापयति छात्रम्' इत्यादौ स्वपनरूपो यः प्रकृत्यर्थः, स इनर्थप्रेषणक्रियाव्याप्यः । एतेन स्वपधातोरकर्मकत्वादेव छात्रमित्यस्य कर्मत्वं सिद्धम् । न चेनर्थप्रेषणक्रियाव्याप्यः कर्तैवेति वाच्यम्, स्वपनस्येनर्थप्रेषणक्रियाजन्यत्वेन व्याप्यत्वात् । स्वाप्नं हि स्वपनानुकूलव्यापार इति । यो हि यदनुकूलको भवति, स तस्य जन्यो भवति । यथा
१. धातोरेकाधिकरणं द्वितीयाविधौ कारकविधौ च कर्म भवतीत्यर्थः । कारकविधौ कर्मत्वं यथा स्तोकन्यः स्तोकल्व इत्यादौ " अनेकाक्षरयोः” (२।२।५९) इत्यादिना यत्ववत्वसिद्धिरिति भावः । एतेन हि स्तोकं स्वापयतीत्यादौ धातोरेकाधिकरणस्य स्तोकशब्दस्य द्वितीयाविधौ धातोः सकर्मकत्वम् । एकाधिकरणभिन्नस्य कर्तुश्छात्रस्य कर्मत्वं प्रति षष्ठ्यादिविधिं प्रति च धातोरकर्मकत्वम् ।
२. सर्वो हि धात्वर्थः करोत्यर्थेन व्याप्त इत्यत्र करोत्यर्थ इत्युपलक्षणम् । तेन इच्छतीत्यपि प्रत्ययार्थः । तेन कटं करोतीत्यादौ करणेच्छाश्रय इत्याद्यर्थसिद्धो भवति । नहि प्रत्ययार्थः करोतीति करणस्य करणासम्भवत्वात् । यद् वा प्रत्ययार्थः करोत्यर्थ एव धातूनामनेकार्थत्वाद् इच्छतीत्यर्थ इति सिद्धान्तो देयः । स्तोकं पचतीत्यादौ प्रत्ययार्थकरोत्यर्थत्वाद् धातुवाच्यफलत्वाभावे कर्मलक्षणे धातुवाच्यपदेन लक्षणया धात्वर्थवाचकवाच्योक्तत्वात् प्रत्ययार्थत्वेऽपि कर्मत्वमिति । ननु धात्वर्थे करोत्यर्थनिवेशेऽपि कथं सकर्मकत्वम् । यतोऽन्तर्निविष्टकर्मणि सत्यपि धातोरकर्मकत्वम् । यथा 'मृङ् प्राणत्यागे' (५ | १११) इति नैवम् । धातोरन्तर्निविष्टकर्मत्वे सति धातोर्बाह्यकर्म न संभवति, तत्राकर्मकत्वम् । यत्र बाह्यं संभवति तत्र सकर्मकत्वमेव । अतोऽत्र बाह्यस्य स्तोकादेः संभवात् सकर्मकताशङ्का इति न दोषः । सकर्मकत्वं हि स्वशक्यतावच्छेदकफलावच्छिन्नव्यापारत्वम् ।