________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
अधिश्रयणादिक्रियाजन्या विक्लित्तिरिति । 'सुखं स्थितान्यागाराणि' इत्यादावधिकरणे तो विहितः । अधिकरणं हि कारकं भवति, तद्धि अधःपतनप्रतिबन्धकक्रियया देवदत्तादेः स्थितिं साधयतीत्यत्रापि क्तप्रत्ययार्थस्य व्याप्यः स्थाधातोरर्थः । अतः स्थाधातोरकर्मकत्वादधिकरणे क्तः सिद्धः ।
८९
‘स्तोकं गन्ता' इत्यत्र यस्माद् धातोः कृत्प्रत्ययः । प्रत्यासत्त्या तद्धातुवाच्यक्रियाव्याप्यं यत्, तस्मिन्नेव षष्ठीविधानात् । अत्र तु तृच्प्रत्ययवाच्यस्य कर्तुः प्रयत्नादिसाध्यं यद् गमनम्, तस्यैव विशेषणं स्तोकमिति, न तु गतिक्रियाव्याप्यमिति । स्तोकं भीतः इत्यादावपि उक्तरीत्यैव स्तोकमिति प्रत्ययार्थव्याप्यस्य' भीधात्वर्थस्य विशेषणमिति । अतो भीधातोरकमर्कत्वेन क्तप्रत्ययः कर्तरि सिद्ध इति । अत एव सर्वस्यैव कर्मकर्तृविहितस्य प्रत्ययस्य क्रियाजनकत्वरूपं कारकत्वमिति वाच्यम् । अत उत्पत्त्यनुकूलस्वरूपस्य प्रत्ययवाच्यार्थस्य व्याप्या क्रिया भवत्येवेति न्यासः । अत एव कर्मणो नास्योक्तत्वम्, धात्वर्थव्याप्य एव प्रत्ययविधानात् । ननु तथापि भावे कृत्प्रत्यये सति स्तोकं पाकः ' इत्यादौ कारकप्रत्यायकप्रत्ययस्याभावात् प्रकृत्यर्थस्य व्याप्यत्वाभावे कथं तद्विशेषणस्य स्तोकशब्दस्य कर्मतेति । नैवम् । पाकक्रियायाः कर्तृसापेक्षत्वात् कर्तरि विहितेन तृतीयादिना कारकत्वाभिधानात् पूर्वरीत्या पचनं व्याप्यमिति तद्विशेषणस्य स्तोकस्य व्याप्यतेति । यद्येवम्, देवदत्तेन ओदनस्य स्तोकं पाकः' इत्यादौ उक्तयुक्त्या पाकशब्दादपि द्वितीया स्यात् । उच्यते कृत्प्रत्ययेन सिद्धताभिधानात् पाक इत्युक्ते क्रियायाः सिद्धिरेव प्रतीयते । अतः सिद्धतायाः कर्तुरसाध्यत्वात् पाकशब्दान्न द्वितीया । किन्तु सिद्धताविशिष्टो यः पाकस्तदन्तर्गतं यत् पचनं तदेव कर्तृसाध्यत्वेन व्याप्यम् । अतस्तद्विशेषणस्यापि स्तोकशब्दस्य व्याप्यतेति । यत्र तु सिद्धताविशिष्टस्य
१. प्रत्ययार्थव्याप्यत्वाद् भीधात्वर्थस्य कर्मत्वम्, ततः कर्मविशेषणेन कर्मत्वं स्तोकशब्दस्येत्यर्थः । देवदत्तस्य शायिकेत्यादौ धातुवाच्यक्रियाश्रये कर्तरि षष्ठी विधानात् तत्साहचर्याद् धातुवाच्यक्रियाव्याप्य एव कर्मणि षष्ठी स्यादिति नास्ति 'स्तोकं गन्ता' इत्यादौ स्तोकात् षष्ठीप्रसङ्ग इति सिद्धान्तान्तरम् । २. ननु ‘सुखं स्थितान्यागाराणि ' इत्यत्राधिकरणे क्तप्रत्ययवाच्यत्वात् कर्तृकर्मविहितस्येत्युपलक्षणम् । तेन क्रियां जनयति क्रियाजनकं कारकम् तस्य भावः क्रियाजनकत्वम् । क्रियानुकूलव्यापारः कारकनिष्ठः कारकविहितप्रत्ययेनोच्यते इति भावः ।
३. साध्यता हि धर्मस्त्यादिवाच्यः, सिद्धता हि धर्मो घञादिवाच्य इति तर्काचार्येणाप्युक्तम् ।