________________
कातन्त्रव्याकरणम्
पाकस्यैव विशेषणं तत्र 'स्तोकः पाकः' इत्येव भवति । अत एव पाणिनिरपि एतद्युक्त्यनुसारेणैव क्रियाविशेषणसूत्रं कृतवानिति ।
९०
न्यायादिति पञ्जी। अव्यवहितन्यायादित्यर्थः । एतेनात्रैकत्वनपुंसकत्वविधानार्थं श्रीपतिसूत्रमयुक्तमेव | धातोरर्थस्यासंख्यत्वात् तद्विशेषणस्यापि सुतरामेकत्वनपुंसकत्वसिद्धिः ।किञ्चाजहल्लिङ्गानामादिशब्दादीनां क्रियाविशेषणत्वे सति नपुंसकत्वप्रसङ्गात् । अत एव भट्टिटीकाकृता केशवेनापि अजहल्लिङ्गानां तु असंभवान्न नपुंसकत्वम् । यथा ज्ञानहेतुं पठति, दानहेतुं पचति, सुखहेतुं नक्तं क्रीडति इत्युक्तमिति । " अकथितं च " ( अ० १ | ४|५१ ) इति पाणिनिः । अपादानादिसंज्ञाभिर्यन्नोक्तं तदपि कर्म स्यादित्यर्थः । हेत्वर्थे तृतीयाबाधकमिदम् । “कर्तुरीप्सिततमं कर्म" (अ० १ । ४ । ४९) इत्यनेन पयसः कर्मत्वं सिद्धं गवादेः कर्मार्थमेतदिति भावः । दुहियाचीत्यादि । ननु याचिभिक्ष्योस्तुल्यार्थयोरेकतरवैयर्थ्यम् । नैवम् याचेरविनीतार्थत्वात् 'अविनीतपौरवं गां याचते' इत्यपि स्यात् । भिक्षिर्विनीतार्थ एवेति कुलचन्द्रः ।
वस्तुतस्तु याचिरिहानुनय एव वर्तते, भिक्षिस्तु प्रार्थनायाम्, अतो द्वयोरुपादानम् । श्रीपतिमते द्वयोरपि याचनार्थद्वारेणैव संग्रहोऽर्थनार्थेति सामान्येनोपादानादिति विशेषः । ( अत्र प्रछिरर्थपरश्छन्दोऽनुरोधान्न द्विर्भावः । उपयोगो व्यवहारस्तस्य निमित्तम् इत्यर्थाच्छिष्यादेः पूर्वद्वारा न स्यात् । धमदिर्व्यवहार्यत्वाभावे तन्निमित्तस्य शिष्यादेरभावादिति पृथगाह) - ब्रुविशासीति । ब्रुविरर्थपरः । यद्यपि ब्रूधातोरिकिप्रत्यये वच्यादेशस्य विषयस्तथापि ‘“ अजेर्वीः” (३ । ४ ।९१) इत्यत्र यथा अजेर्वीरित्यादेशाभावेऽपि साधुत्वम्, तथात्रापीति | अस्मादेव कात्यायनवचनाद् वा साधुत्वमिति । उपयुज्यते व्यापार्यते व्यवहार्यते इति यावत्, तस्य निमित्तं गवादिरिति । अत्र निमित्तपदेन निमित्तविशेषस्य ग्रहणादव्यवहितनिमित्तस्यैवाकथितत्वम् । तेन 'चैत्रस्य गां दोग्धि ' इत्यादौ निमित्तविवक्षायामपि चैत्रस्य नाकथितत्वम् ।
१. याचेर्भिक्षार्थत्वादेव सिद्धे पुनस्तदुपन्यासो न याचनार्थः, किन्तु अभ्यर्थनार्थ एवेति । दानार्थकं प्रेरणं याचनं क्वापि कारयितव्येऽभिनिवेशार्थं यत्नभेदोऽभ्यर्थनमिति । भेदस्थलं तु पुत्रमध्ययनं याचते इत्यर्थः ।