________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः। अनन्यविधौ अपादानादिसंज्ञादीनामविषय इत्यर्थः । ननु यथा उपयोगनिमित्तत्वेन 'गां दोग्धि पयः' इत्यादौ गवादेः कर्मत्वम्, तथा 'चैत्रस्य गां दोग्धि पयः' इत्यत्र चैत्रस्य निमित्तत्वविवक्षायां कर्मत्वं स्यात् ? सत्यम् । यद्यपि निमित्तशब्देन सामान्यनिमित्तमात्रमुच्यते, तथापि निमित्तविशेष एव बोद्धव्यः। तस्माद् यदुत्तरद्वितीयाय निमित्तत्वं बोध्यते, तस्यैवाकथितत्वम् । स च गवादिरेव, न तत्संबन्धी चैत्रादिः । अन्वयबोधे तान्येव पदानि सपर्थानि, न तु पदान्तराणीति न्यायात् । अपूर्वविधाविति उपलब्ध्यभावोऽनुपलब्धिरितिवत् पूर्वविध्यभावोऽपूर्वविधिरिति । तथा चानन्यविधाविति अन्यस्य विधेरविषय इत्यर्थः । परमप्येतदपादानादिविवक्षायां न प्रवर्तते किन्तु अपादानाद्येव । यथा 'गोः सकाशात् पयो दोग्धि' । क्षरतीत्यादि ।
अथ दुहेः क्षरणार्थत्वाद् गोः सकाशाद् दुग्धं क्षरति, तत् क्षारयतीत्यर्थे सति 'वृक्षमवचिनोति' इत्यत्र च चिनोतेरपादानार्थत्वाद् वृक्षाद् आदत्ते इत्यर्थे सत्यपादानत्वात् कथितत्वमस्त्येव, कथं गोवृक्षस्य च कर्मत्वमिति दोषः ? सत्यम् । यद्यप्यवधिविवक्षा सम्भवति तथापि न विवक्ष्यते, किन्तु यत्र गोनिमित्तं क्षरणं वृक्षनिमित्तकं फलादेरादानमिति विवक्ष्यते, तत्रैव "अकथितं च" (अ० १।४।५१) इति पाणिनिना सूत्रं प्रणीतमिति । ब्रुविशास्योर्गुण इत्यादि । नात्र गुणशब्दो गौणवचनः, किन्तु गुणो धर्मादिप्रधानम् । यच्श्रवणेन श्रोता गुणवान् भवतीति कुलचन्द्रः। तन्न । 'शिष्यं घटं ब्रूते' इत्यत्र कार्यत्वं न स्यात्, न ह्यनेन श्रोता गुणवान् भवतीति । जयादित्यस्तु क्रियापेक्षया धमदिर्गौणत्वाद् गुण इत्याचष्टे । शिष्यादिकर्मान्तरापेक्षया तस्य प्राधान्यम्, प्रधानमपि तदुद्दिश्य प्रवृत्तेरिति, इत्येव पक्षो न्याय्यः । स्वभागद् द्विकर्मका इति द्विक्रियका इत्यर्थः । 'गां दोग्धि' इत्यादि । गां पयो मोचयतीत्यर्थः' । पौरवं गां याचते' इति गां दातुं पौरवं प्रेरयतीत्यर्थः । पौरवम् अनुनयन् गां प्रार्थयत इत्यर्थ इति वा ।
१. स्वमते दुहधातोरर्थः - अधःसंयोगानुकूलस्नुत्यनुकूलपय स्थाननिकर्षणमिति । पाणिनिमतेऽधःसंयोगानुकूलपयः स्थाननिकर्षणमिति । तन्मते दुहादीनां गौणकर्म उक्तम् । स्वमतेऽप्रधानकर्म उक्तम् । अतः स्वमतपरमतयोः साम्यं ज्ञेयमिति। २. स्वमते याचधातोरिच्छार्थः । इच्छाश्रयत्वादुभयोः कर्मत्वम् । पाणिनिमते स्वत्वविशिष्टज्ञानानुकूलो मह्यं देहीति व्यापारः । भिक्षिधातोरपि याचिवत् प्रक्रिया ।