________________
९२
कातन्त्रव्याकरणम्
गामवरुणद्धि व्रजम् इति । गामन्तः स्थापयन् व्रजमावृणोतीत्यर्थः' ।गां व्रजं प्रवेशयतीति वा । 'छात्रं पन्थानं पृच्छतीति । पन्थानं जिज्ञास्यमभिधातुं छात्रं प्रेरयतीत्यर्थः । पौरवं गां भिक्षते इति । गां दातुं पौरवं प्रेरयतीत्यर्थः । 'वृक्षमवचिनोति फलानि इति । वृक्ष विघट्टयन् फलान्यादत्ते इत्यर्थः । 'शिष्यं धर्मं ब्रूते इति । धर्मं प्रतिपद्यते शिष्यः । तं धर्मं प्रतिपादयतीत्यर्थः । 'शिष्यं धर्ममनुशास्ति' इति । धमदिशनया विनयतीत्यर्थः । नीवह्योरित्यादि । नयत्यादेर्द्विकर्मकेषु ग्रहणम्, तथा ण्यन्ते इनन्ते गत्यर्थादीनां गतिबुद्धीत्यादीनामिति यावत्, तेषां द्विकर्मकेषु ग्रहणम् ।हेतुमाह - कर्तुश्च कर्मण इति | कर्तृरूपस्य कर्मणः संभवादिति शेषः । कर्मपदेन कर्मत्वमुच्यते । कर्तुः कर्मत्वादित्यर्थ इति वा । 'कर्तुः कर्मणे' इति चतुर्दान्तपाठे तु कर्तुः कर्मत्वार्थमिनन्ते द्विकर्मकेषु गत्यर्थादीनां ग्रहणमित्यर्थः । यदि भाष्यादौ - 'द्विकर्मकषु ग्रहणं द्रष्टव्यमिति निश्चयः' इति पाठस्तदा अयमर्थः- गत्यर्थानां मध्ये नयत्यादेर्द्विकर्मकषु ग्रहणं द्रष्टव्यमिति निश्चय इत्यर्थः । अजामित्यादि । 'नयतिवहतिहरतीनामर्थः प्रापष्षा | ग्रामं छात्रशतं जयतीति ग्रामग्रहणेन छात्रशतं पराजयते इत्यर्थः ।
गर्गान् शतं दण्डयतीति । शतानां ग्रहणेन गर्गान् शास्तीत्यर्थः । ग्रहमृषकृषोऽपि
१. स्वमते क्रुधधात्वर्थः - विशिष्टस्तम्भादिरोपणस्वरूपसंयोगानुकूलव्यापारविशिष्टत्वं बहिर्देशगमनाभावपूर्वकत्वं संयोगस्योभयवृत्तित्वाद् उभयोः कर्मत्वम् । पाणिनिमते तु गमनाभावानुकूलस्तम्भादिरोपणव्यापारः । २. स्वमते प्रच्छधातोरर्थः- विषयतानिरूपकज्ञानानुकूलेच्छाविषयताशालिपथो ज्ञानशालित्वाच्छात्रस्य कर्मत्वम् । पाणिनिमते ज्ञानविषयतानुकूलप्रेरणम् । ३. चिञ्धात्वर्थः-संयोगध्वंसानुकूलाकर्षणव्यापारः संयोगध्वंसरूपफलवत्त्वादुभयोः कर्मत्वम् । पाणिनिमते संयोगानुकूलाकर्षणादिव्यापारः इष्टफलसंयोगशालित्वात् फलस्य कर्मत्वम् । वृक्षस्य निमित्तत्वेन कर्मत्वम् । पाणिनिमते सर्वत्रैव दुहादीनां निमित्तत्वेन कर्मत्वम् । केवलं ब्रूशासधातू विना बोध्यमिति । ४. ब्रूञ्धात्वर्थ:-विषयतानिरूपकज्ञानानुकूलव्यापारः । व्यापारश्च कण्ठताल्वादिजन्यशब्दरूपः । विषयताशालित्वाद् धर्मस्य ज्ञानशालित्वाच्च शिष्यस्य कर्मत्वम् ।पाणिनिमते ज्ञानविषयतानुकूलव्यापारः । व्यापारः पूर्ववद् ज्ञेयः। ५. नीधात्वर्थ:-संयोगानुकूलस्पन्दनानुकूलरज्ज्वाकर्षणादिव्यापारः । ६. जिधात्वर्थः- स्वजन्यपीडानुकूलाक्षक्रीडादिव्यापारः । ७. दण्डिधात्वर्थः- स्वत्वजन्यदुष्टध्वंसानुकूलदमनादिव्यापारः ।