________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः कुलचन्द्रेण दर्शिताः । श्रीपतिनापि कृषेरेवेति विशेषः । “आधारोऽधिशीस्थासाम्" (अ० १।४।४५ - ४६) इति पाणिनिः। अधिपूर्वाणामेषामाधारः कर्म भवतीत्यर्थः । अकर्मकण शीङा साहचर्यात् प्रसिद्धार्थस्य ग्रहणाच्च तिष्ठतिकर्मक एव ग्राह्यः । तेनावेक्षणार्थस्य तिष्ठतेन स्यात् । रणेऽधितिष्ठति राजानमित्यत्र रणस्य न कर्मता । एतदालोच्य श्रीपतिना "आधारोऽधिशीस्थासां ध्रौव्ये" (कात० परि० का० १२) इति सूत्रे ध्रौव्यग्रहणं प्रदत्तमिति । “अभिनिविशश्च" (अ० १।४।४) इति पाणिनिः। अभिश्च निश्च अभिनी, तत्पूर्वो विशस्तस्याधारः कर्म भवति । चकारादधिकरणसंज्ञापि पक्षे भवतीति न वक्तव्यमिति अभिनिविशः सकर्मकत्वादिति भावः । ननु परेणाधिकरणसंज्ञापक्षे चकाराद् विधीयते । तदस्मन्मते कथमित्याह - इहादिकरणविवक्षापि दृश्यते इति । तथा च माघेऽपि -
'स्वहस्तदत्ते मुनिमासने मुनिश्चिरन्तनस्तावदभिन्यवीविशत्' (१।१५) इति ।
"उपान्चध्याङ्वसः" (अ० १।४।४८) इति पाणिनिः। अस्याप्याधारः कर्म भवतीत्यर्थः । ननु ‘वसः' इति विशेषार्थानिर्देशादनशनार्थस्य वसो ग्रहणं कथन्न स्यात् । यथा 'तीर्थे उपवसति' | अनशनं करोतीत्यर्थः । अत्र कर्मत्वाभावार्थम् ‘उपान्निवासे' इति निवासार्थे कर्मत्वार्थं पृथक् सूत्रं विधीयतामिति श्रीपतिः पाणिनिमाक्षिपति । वार्त्तिककारोऽपि 'तीर्थे उपवसति' इत्यत्रानशनार्थस्य वसतेरधिकरणस्य कर्मत्वनिषेधो वक्तव्य इत्याचष्टे । यस्तु 'उपोष्य रजनीमेकाम्' इति प्रयोगस्तत्र कालाध्वनोरिति द्वितीया ? सत्यम् । तीर्थे उपवसतीत्यत्र तीर्थम् उपवसते धिकरणम् । किन्तु गम्यमानस्य केवलस्य वसतेरिति न कर्मता । अत एव भाषावृत्तावपि तीर्थे उपवसतीति तीर्थे वसन् उपवासं करोतीत्यर्थः इत्युक्तम् । अत्रोपवसेः कर्म प्रयुक्तम् - त्रिरात्रादिकम् । तथा चोक्तम् -
वसतावप्रयुक्तेऽपि देशोऽधिकरणं मतम् । अप्रयुक्तं त्रिरात्रादि कर्म चोपवसेः स्मृतम् ॥
___ (वा० प० ३।७।१५५) इति पुरुषोत्तमेनोक्तम् । ननु तथापि अनशनार्थस्योपवसतेराधारत्वे विवक्षिते तीदिः कर्मत्वं स्यात् । ततश्च तीथदिरधिकरणस्य कर्मत्वे उपवसत्यस्मिन्नित्युपवसनम् । उपोषितमिति